________________ 26 नयचक्रम् / [सामान्यविशेषयानामर्थत्वाभावात् / अर्थलक्षणा तु द्रव्यगुणकर्मसम्बन्धात्मिका / तेषामर्थसंज्ञितत्वात् / यथोक्तमर्थ इति द्रव्यगुणकर्मवस्तु / तत्र क्रियावदित्यादि द्रव्यलक्षणं / तद्भेदलक्षणं च रूपरसगन्धस्पर्शवती पृथिवी / रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च / तेजो रूपरसस्पर्शवत् / वायुः स्पर्शवान् / यत्र रूपादिचातुर्गुण्यं सा पृथिवी / गन्धहीना द्रवस्नेहाधिकाश्चापः / द्रवस्नेहरसगन्धहीनं तेजः / रूपहीनो वायुः / द्रव्याश्रयादिलक्षणो गुणः। श्रोत्रग्रहणोऽर्थः शब्दः। चक्षुर्ग्रहणो योऽर्थः स रूपमित्याद्यर्थलक्षणानियततया प्रत्यासत्या सत्या सामान्यविशेषौ स्यातामिति / अत्रोच्यते / अर्थाश्लेषलक्षणायां त्वासत्तौ पृथिवीघटरूपादीनामेव स्यात्सामान्यविशेषता लक्षणोद्देशनिर्देशकृतैवेत्यर्थः। नेतरसामान्यविशेषयोः सामान्यविशेषतेति वर्तते / सत्त्वद्रव्यत्वपृथिवीत्वगुणत्वरूपत्वाद्यनुवृत्तिव्यावृत्तिबुद्धिलक्षणयोने खात् / इष्यते च तयोरपि वैशेषिकैर्गुणसमुदायद्रव्यवादिभिश्च सादृश्यानुवृत्तिलक्षणसामान्यविशेषता / कोऽभिप्रायः ? / अर्थाश्लेषलक्षणासत्तिकृतसामान्यविशेषाभ्युपगमे तत्त्वानुवृत्तिबुद्धिग्रहणौ न स्याताम् / तत्त्वानुवृत्तिनिवृत्तिकृतयोर्वाभ्युपगमेऽथोंश्लेषकृतप्रत्यासत्योरभाव इति विरोधान्न प्रकल्प्यत इत्ययमभिप्रायः। किं चान्यत्तथापि स्वविषयसामान्यविशेषापत्तिराश्लेषलक्षणासत्तौ सत्यामपि स्वविषयमेव सामान्यं खविषय एव विशेष इत्युक्तौ प्रागुक्तौ विकल्पावापन्नौ / सा चोक्तदोषा सापि च स्वविषयसामान्यविशेषापत्तिरुक्तदोषैव / यदि स्वविषयं सामान्यविरोधः / यदि सामान्यं तत आत्मा न भवत्यनेकार्थत्वात्सामान्यस्य / अथात्मा ततो न सामान्यमेकत्वादात्मनः / अथात्मैव सामान्य रूपादिर्घटादेरात्मा तत्समुदायकार्यत्वात् / एवं सत्यात्मभेदः / रूपं रूपं च रूपादिसमुदयश्चेत्यादि / तथा विशेषोऽपि यदि स्वविषयो विशेषविरोधः / यदि विशेषस्तत आत्मा न भवत्यन्यत्वाद्विशेषस्य गुणतः कालतो वा / अन्यथा घटादौ सामान्यापत्तेः / अथात्मा ततो विशेषो न भवत्येकत्वादात्मनः। अथोच्येत-नैकत्वान्यत्वविरोधदोषौ / आत्मैव विशेष इत्यनपादानादिप्रतिज्ञानाद्यद्यात्मापेक्ष एव विशेष एक एवान्य इत्यात्मनोऽन्यथाभवनादनात्मत्वमित्यादिपूर्वोक्तदोषसम्बन्धिनी खविपयसामान्यविशेषापत्तिः। अत्राह संसर्गवादी-यद्यात्मैव सामान्यमात्मैव विशेष इति ब्रूयाः सांख्यबौद्धवत्परे ते दोषाः / ममापि न पुनरहमेवपक्षः / मम तु सामान्यविशेषौ द्रव्यगुणकर्मभ्योऽत्यन्तभिन्नौ / नागृहीतविशेषणा विशेष्ये बुद्धिरस्तीति सत्त्वाभिसम्बन्धात् सद्रव्यत्वादिसम्बन्धात् द्रव्यमित्यादिसामान्यविशेषवादिनः कथं स्खविषयसामान्यविशेषपक्षदोषाः इति / अत्रापि परविषयसामान्यविशेपवादिप्रत्याख्यानात् का गतिः / इत्यलं प्रसङ्गेन / तस्मादित्युक्तदोषोपसंहारार्थः /