________________ -व्याख्यानम् ] न्यायागमानुसारिण्यलङ्कृतम् / दिति' / द्रव्यगुणकर्मणां विशेषः / एवं तनानात्वं द्रव्यगुणकर्मणां प्राप्तमिति चोदिते विशेष उच्यते / नाविशेष एव आरम्भानारम्भभेदात् / द्रव्याणि द्रव्यान्तरमारभन्ते, गुणाश्च गुणान्तरं, कर्म कर्मसाध्यं न विद्यत इति / किं चान्यत् ? लक्षणभेदात् / क्रियावद्गुणवत्समवायिकारणमिति द्रव्यलक्षणम् / द्रव्याश्रय्यगुणवान् गुणः इति गुणलक्षणम् / संयोगविभागाद्यनपेक्षं कारणमिति कर्मलक्षणम् / तथा विरोधाविरोधभेदात् / कार्याविरोधि द्रव्यं कारणविरोधि च / उभयथा गुणः कार्य विरोधि कर्मेत्येवमादि द्रव्यगुणकर्ममानात्वहेतुकलापश्च विशेषाभावादनर्थकमापद्यते / एवं तावद्व्यस्य च सामान्यविशेषौ स्यातां न गुणकर्मणोः / इतर आह-यथा द्रव्ययोः प्रत्यासत्तिव्यत्वाभिसम्बन्धात् / तथा सत्याभिसम्बन्धाद्रव्यगुणकर्मणां भविष्यति / यथोक्तं-सदिति यतो द्रव्यगुणकर्मसु द्रव्यगुणकर्मभ्योऽर्थान्तरं सा सत्तेति।। अत्र क्रमः। द्रव्ययोरपि त्वदनुकम्पाद्रवीकृतचेतसा मया त्वयि चित्तानुवृत्त्योक्तं तत्राप्याशां मा कृथास्तदपि नोपपद्यते बुद्ध्यासन्नीकृतसामान्यविशेषवादिनो भव तः / सामान्याभावे विशेषाभावात् / तथा सत्तिः सिकतानां वज्रस्य च पार्थिवत्त्वसामान्यानुविद्धत्वात् / अश्मसिकता-लोष्ठवज्रादीनां तेषां सामान्यविशेषौ स्यातां, न भूम्यम्भसोरन्यतरस्य पार्थिवत्त्वाभावात् / तेनैव हेतुक्रमेण तथासत्तिः पिण्डघटयोर्न मृत्सिकतानाम् / एवं परतः परतो यावत्तुल्यजातिगुणक्रिययोरण्वादेरेव स्याताम् / सामान्यविशेषाविति वर्तते / तथा सत्तिर्घटकपालयोन पिण्डघटयोरेवं कपालशकलयोन घटशकलयोः, शकलशर्करयोः पांशुधूल्योर्न धूलीशर्करयोधूलीत्रुट्योन पांशुत्रुट्योस्त्रुटिपरमाण्वोर्न धूलीपरमाण्वोः। अथवा घटस्य च घटस्य च न घटस्यकपालस्य चेत्यादि / द्वयोरप्यण्वोः पार्थिवशुक्लगतिसमवायिनोरण्वो प्यपार्थिवादिनीलशुक्लगतिस्थितिजातिगुणक्रिययोः न तु तयोरपीत्यादि / यावदपक्षिप्तप्रत्यासत्त्योरिति / तुल्यजातिगुणक्रियासमवायिनोरन्यत्वप्रत्ययप्रभावोल्लिङ्गितान्त्या विशेषयोः / तत्समवायेनापक्षिप्तापहृता प्रत्यासत्तिस्तयोरपीति कृत्वा कुतस्तद्बुद्ध्यसत्तिप्रहरणम् / तस्मात्सामान्याभावाद्विशेषाभावः सर्वत्रैवोभयाभाव इति / द्रव्यगुणकर्मणां न सामान्यं नापि विशेष इत्यतःप्रभृति यावदण्वोरित्येतदवधि मध्याभिहितोपपत्तिबलाद्यथोपपादितसामान्यविशेषाभावं स्मारयति // अत्राह-सा द्विधा-प्रत्यासत्तिरर्थसम्बन्धादनर्थसम्बन्धात् / तत्रानर्थलक्षणा सद्रव्यपृथिवीमृद्घटादितत्त्वानुवृत्तिबुद्धिग्रहणा यथोक्ता सामान्यविशेषसमवा 1 कपालशकलयोन घटशकलयोः, शकलशर्करयोर्न घटशर्करयोः, पांशुशर्करयोर्न शकलशर्करयोग, पांशुधूल्योर्न धूलिशर्करयोः, धूलित्रुथ्योर्न पांशुत्रुट्योः, त्रुटिपरमाण्वोर्न धूलीपरमाण्वोः।२°सम्भवात् / न. च.४