________________ नयचक्रम् / [ सामान्यविशेषरेणुस्पर्शरसरूपगन्धादिवन्न गृह्यन्त इति तेषां हि रविकरोद्योतव्यक्तानां रूपमेव ग्राह्यं / अथोच्येत परेण यदि सम्बन्धदेशसमवस्थानादर्थानां विशेषो न भवति, एककालसहावस्थानार्थानां विशेषो भविष्यति यसादवतिष्ठते हि किश्चित्कश्चित्कालं / यथा पूर्वोपरस्थितघटपटाविति / ननु विशेषकारणमत्र वक्तुं प्राप्तमिदं तु सामान्यकारणमेवाशङ्कितमिति / अत्रोच्यते-सामान्यद्वारेण विशेषः सिद्ध्यतीति तदसिद्धिद्वारेण विशेषासिद्धिरिति सर्वत्र ग्राह्यं / अत्राप्याचार्य उत्तरमाह-एवमपि तथाभूतसामान्याभ्युपगमादविशेषत्वमेव / पराभ्युपगम एवोत्तरत्वमापद्यते एककालावस्थानककालसामान्याभ्युपगमाद्देशसम्बन्धसामान्याभ्युपगमवद्रूपान्तत्यागोऽकस्मात्तुल्यत्वादित्यविशेषत्वमेव / किं चान्यत् / प्रागुक्तविधिना सर्वसामा. नाधिकरण्याच विशेषस्वतत्त्वस्य परस्परापेक्षत्वाद्विशिष्यमाणत्वात् भावानां परस्परतः सर्व जगदेकाधिकरणम् / तत्रैकविकारेऽपि सर्वस्याशेषस्याप्यशेषस्य तदपेक्षत्वादन्यथा त्वधिकारो जायते / कुतस्तन्मात्रेऽन्यत्वात् / को दृष्टान्तः ? गन्धो नाधिकत्वं भाववदिति / यथा भ्वम्भसोरयथासंख्येन न गन्धो तस्यांभसो गन्धाधिकायाश्च भुवः। तर्हि नाधिकभावे न विकारो दृष्टः / गन्धहीना आपस्तदधिका भूरिति / तस्मानास्त्येवानवस्थानानिराश्रयः खपुष्पवद्विशेष इति / अथ तु तद्भुध्यासन्नमेव ग्रहीष्यते सामान्यविशेषयोरिति / अथेत्यधिकारान्तरे / तुर्विशेषणे / प्राक्तनाद्देशकालासत्यविकारादुद्ध्यासत्यविकारं विशिनष्टि / बुद्ध्यासन्नः स इति बुद्धिर्योऽसौ प्रथमो घटः स एव द्वितीय इति बुद्धिः। का सा? तत्त्वानुवृत्तिबुद्धिः। व्यावृत्तिबुद्धिरपि तद्बुद्ध्यासत्या द्रव्यत्वबुद्धौ प्रसक्तायां नायो न सिकता / न शिवकादिर्घट एवेति / यथोक्तम्-'अनुवृत्तिप्रत्ययकारणं सामान्यं / व्यावृत्तिबुद्धिहेतुर्विशेषः।' इति / ___ अत्र क्रमः। एवं तर्हि द्रव्यगुणकर्मणां न सामान्यं नापि विशेषः। किं कारणं? तेषां परस्परासत्यभावात् / तया तद्बुद्ध्या द्रव्यस्य गुणस्य कर्मणो वा सन्निगृह्यते / किं द्रव्यबुद्ध्या गुणो गृह्यते, कर्म वा / द्रव्यबुद्ध्या हि तद्रव्यमेव / तदासन्नत्वात् द्रव्यमिति गृह्येत / / तत्रैव च सामान्यविशेष स्याताम्।न गुणकर्मणोः। कसायमात्तबुद्ध्यासन्नता। द्रव्यस्य द्रव्यस्य च, नद्रव्यस्य गुणस्य च, तथा न द्रव्यस्य कर्मणां च / न गुणस्य कर्मणश्चेति / सामान्याभावो विशेषाभावं च। तदुद्ध्या सत्यभावात् / एवं च कृत्वा तयोः सत्वं सामान्यं मा भूत् तस्मात् सदिति त्रयाणामविशेष इत्ययुक्तं / तथा नित्यं द्रव्यवत्कार्य, कारणं सामान्य विशेषवदिति च सामान्यं द्रव्यगुणकर्मणां मा भूत् / उक्तं च वः शास्त्रे-'सदनित्यं द्रव्यवत्कार्य कारणं सामान्यविशेषव