________________ र -व्याख्यानम् ] न्यायागमानुसारिण्यलङ्कृतम् / श्रयो विशेषार्थोऽवस्थाप्यतेति / एवं परस्परविशेषणत्वेन सर्वेा नित्यं प्रवृत्ता एवेति समयमात्रमपि नास्ति तेषां समवस्थानं, समवस्थानाश्रयो हि विशेषोऽवस्थाप्ये तदभावात् कुतो विशेषः / आत्तवदिति / तत्कालावगृहीतक्षणोत्पत्त्यविनष्टभाववदित्यर्थः / ततः किमिति चेत् ? संस्थानाभावानिराश्रयः खपुष्पवन्नास्ति विशेषः / स्यान्मतं, सम्बन्धदेशो न इष्यते उपेक्ष्यत इति / किमुक्तं भवति / सम्बन्धदेशान् द्रव्यादीन् मुक्त्वा निराश्रयत्वाद्विशेषो मा भूत् सम्बन्धदेशस्थानां तु घटपटादीनां किमिति तु वा विशेषो न स्यात्तदाश्रयत्वाद्विशेषस्येत्यत्रोच्यते-सम्बन्धो देशोपेक्षायामुपान्त्यत्यागोऽकसात् / एवं सत्यकस्मादेवोपान्त्यस्य विशेषस्य त्यागः सामान्याभ्युपगमात् / कथं सामान्यमभ्युपगतमिति चेत् / तुल्यत्वात् सम्बन्धदेशस्थानां द्रव्यक्षेत्रकालभावप्रत्यासत्तितुल्यक्षणत्वात् / सामान्यस्य समानभावस्य / अत्राह-रूपादिभेदसम्बन्ध एव विशेष इति / रूपरसगन्धस्पर्शसंख्यासंस्थानादीनां सप्रभेदानां सम्बन्ध एव विशेष उच्यते / त एव हि परस्परतो विशिष्यमाणा विशेषाख्या इति / अत्रोच्यते / तन्न, अन्यासम्बन्धेऽरूपादित्वादन्यैर्द्रव्यादिभिरसम्बन्धः तेषामरूपादित्वादन्यद्रव्यादिभिरसम्बन्धे तेषामरूपादित्वं प्रसज्यते। यस्मात् सर्वे सर्वत्र सर्वदा सर्वथा द्रव्यक्षेत्रकालभावाविभागसम्बद्धरसा एव हि रूपादयः। किं कारणं? शुद्धानां क्वचिदप्यभावात् / प्रागुक्तद्रव्यादिसम्बन्धाभावे रूपादिस्वरूपाभावात् / तत्सम्बद्धानामेव दृष्टत्वात् / सप्रभेदद्रव्यादिसम्बन्धाभावे रूपादयो न सन्त्येवेत्यरूपादित्वं तेषां प्रसक्तं / इतर आह-लोके दृष्टो ननु च वायुः / शुद्ध एव स्पर्शः स्यादरूपादित्वं यदि द्रव्यक्षेत्रकालरूपरसादिभिरसम्बन्धे रूपायभाव एवेत्ययमेकान्तः स्यात् / स्थाचानुमानं यदि दृष्टेन न बाध्यते दृष्टश्च वायुः स्पर्शमात्र एव / न हि इष्टाद्गरिष्ठं प्रमाणमस्तीति / अत्रोच्यते-तत्रापि हि क्षेत्रादिद्रव्यस्य रूपादयो न गृह्यन्ते, अनभिव्यक्तिसौक्ष्म्यात् / वैधर्येण द्रव्यादिवत् / यथा द्रव्यादयो गृह्यन्ते प्रत्यक्षेण न तथा वायौ रूपरसगन्धादयोऽनभिव्यक्तिसौक्षम्याद् गृह्यन्ते / किं कारणं? चक्षुरादीन्द्रियग्राह्यपरिणत्यभावात् / हेत्वनुमेयताभावात् / यथोक्तं-सङ्ग्रहान्तरे [ मूर्तिः कथं न वायो स्वाप्येत च कथं न रूप्येतत् / तव्यक्तिग्रहणं प्रति न शक्नुयात्विन्द्रियैः कश्चित् // इति / ] गन्धवन्तस्तोयाग्निवायवः मूर्तित्वात्पृथिवीवत् / एवं रसवन्तावग्निवायू मूर्तत्वाद्भूम्यम्बुवत् / रूपवान् वायुमूर्तत्वादग्निभूमिजलवत् / रूपरसगन्धस्पर्शवन्ति वाय्वनिजलानि मूर्तत्वात् पृथिवीवत् / इहापि च साधर्म्यदृष्टान्त उच्यते / वातायन