________________ 22 नयचक्रम् / [सामान्यविशेषज्ञानप्रसङ्गादवश्यं द्रव्यादयो विषयाः स्वत एव विशिष्टा एषितव्याः / न चेद् योगिनो मिथ्याज्ञानप्रसङ्गोऽन्यथास्थितस्यार्थस्यान्यथादर्शनात् / अन्त्यविशेषाणां च परस्परविशेषोक्तिप्रत्ययप्रवृत्तौ निमित्तान्तरं कल्प्यम् / स्वत एव विशिष्टत्वेऽन्त्यविशेषस्य कल्पना वा त्याज्या। परमाणूनामपि तद्वद्विशेषो निमित्तनिरपेक्षः किं नेष्यते ? विशेषेष्वपि निमित्तान्तराणि चेदनवस्थाप्रसङ्गः / ततश्च विशेषोक्तिप्रत्ययानुपपत्तिरेवेत्यलं प्रसङ्गेन / स्थितं न स्वविषयो विशेष इति / परविषयविशेषपरीक्षावसरः। तत आहपरविषयतायां तु विशेषस्यानवस्थानादविशेषः / ननु प्रागप्युक्तं परापेक्षपक्षापत्तिति / सत्यं, तत्र उपात्तपरित्यागाद् हृदयत्वापादानद्वारेण प्रसङ्गतोऽन्येऽपि दोषा उक्ताः, इह तु प्राधान्येनैवान्येन च प्रकारेण दोषाभिधानं प्रकटीक्रियते / अनवस्थानादविशेष इति साधयिष्यमाणमनवस्थानं सिद्धं कृत्वाह-यथा च प्रागसमानावस्थानादससामान्यमिति प्रक्रम्य सामान्याभावः प्रतिपादितस्तथेहापि तद्विपर्ययेण तदेव प्रकरणं योज्यम् / किं कारणं? अनिवृत्तिकतरकायत्वादित्यादि / सर्व तादृगेव यावत्तत एतानि घटादिवस्त्वात्मविशेषपक्षग्राहिणाप्यवश्यापेक्ष्याणि / प्रत्यक्षग्राहिणाप्यवश्यापेक्ष्याणि प्रत्यक्षत एव, तथापरेण विशिष्टत्वादात्मनः किमु परविषयमुख्यविशेषवादिना प्रत्यक्षत एव तथा तथा परविषयस्य विशेषस्य भवनात्परेण विशिष्टेन भूयत इति / इहेति परविषयविशेषपक्षे द्रव्यादिप्रत्यपेक्षया सर्वस्यास्य सम्बद्धत्वादेकैकस्य निरवशेषमिदं जगद्विशेषणमिति पूर्ववदेव द्रव्यं द्रव्यान्तराणि क्षेत्रं कालं भावं च प्रत्यपेक्षते / स्वप्रभेदात्परप्रभेदांश्च / एवं क्षेत्रं कालो भावश्चेति / सर्व सर्वेण सम्बद्धं, तस्मात्सर्वस्य सम्बद्धत्वात् पूर्ववत्सहक्रमावृत्तिरूपादि, शिवकादि, पृथिव्यादि, ब्रीह्याद्यंकूरादिसमवस्थानाद्रव्याणां, क्षेत्रतोऽपि तेषामेकगतिसमवस्थानात् / कालतोऽप्यनेकप्रभेदः पञ्चवर्ण्यधर्मास्तिकायपृथिव्यादिपानीयादानधारणादि समवस्थानात् / भावतोऽपि पूर्वव. द्रव्यादिरूपादिशिवकादिभवनसमवस्थानात् / स्यादेकघटसंहतनानावस्थगुणवदिति / यथोक्तं-द्रव्यमेव हि तथावस्थानाद्रूपादिभावं लभते / एकः पुरुषः पित्रपुत्रत्वादिवत् / द्रव्यमेव हि घटाख्यं रूपं रसो गन्धः स्पर्शः सङ्ख्या संस्थानं शुक्ल नीलं तिक्तं कटु सुरभि मृदु कर्कशं शुक्लतरं शुक्लतमं चेत्यादिविशेषणतां नातिवर्तते / त एव ह्येते गुणाः पर्यायाश्च नानावस्थाः परस्परविशिष्टाः परस्परस द्रव्यस्य च विशेषणं द्रव्यमेव गुणाः पर्यायाश्च / तथान्येऽपि द्रव्यक्षेत्रकालभावाः सप्रमेदा इति / स्याच्छब्दात्पुनः स्यादेतदेवं, यद्येतद्वक्ष्यमाणदोषण न व्याहन्येतेत्यत आह / तत्र सर्वार्थानां नित्यप्रवृत्तत्वात्समयमपीत्यादि / यावद् यदा