________________ 21 -भाषव्याख्यानम् ] न्यायागमानुसारिण्यलङ्कृतम् / स्मघटत्ववद्वा किं कारणं तत्तत्त्वेनापेक्षत्वात् / तस्य भावस्तत्त्वं, भवनं भावः। तस्य तत्त्वं तत्तत्वेनापेक्ष्यत्वात् / घटभवनवदनपेक्ष्यत्वे हि पार्थिवत्वं / तस्मात् प्राप्तं तदात्मत्वं घटत्वं पार्थिवत्वस्य घटात्मवद् घटत्वेनापेक्ष्यत्वात् / 'इतिशब्दो हेत्वर्थे' अतस्तदात्मतदपेक्ष्यमाणस्य विवेकयत्नार्थहानिः / विशेषार्थापेक्षाप्रतिपादनयत्नहानिः॥ ___ अविशेष इति / एवं च कृत्वा स एवाविशेषः / आदिग्रहणाद्रव्यत्वादितुल्यत्वात् / सत्यतुल्यत्वादित्येवमेवाविशेष आपाधः। स्यान्मतम् / अयं विशेष एव न भवत्यापेक्षिकत्वात्सामान्यविशेषाणां द्रव्यत्वादीनामौपचारिकत्वाच्च / द्रव्यत्वं गुणत्वं च सामान्यानि विशेषाश्चेत्युक्तानि / किं पुनर्गोत्वघटत्वादीनीति / कस्तर्हि विशेषो मुख्योऽन्त्य एव / सामान्यमपि मुख्यं भाव एवेत्यभिप्रायः। यस्मादणुप्वेकाकाशदेशातीतप्राप्तेष्वन्यत्वज्ञानाभिधानप्रभावविभावितोऽन्त्यो विशेषः / न ह्याकस्मिकावन्योक्तिप्रत्ययौ, तसादस्त्यसौ स एव च विशेषो मुख्यो यथोक्तमन्यत्रान्त्येभ्यो विशेषेभ्य इति / तथा भावे च मुख्यसामान्यम् / सदिति यतो द्रव्यगुणकर्मसु द्रव्यगुणकर्मभ्योऽर्थान्तरं सा सत्तेतिवचनात् / द्रव्यत्वादीनामौपचारिकत्वात्तव्यात्मतयोपपादितमित्यत्रोच्यते-अन्त्येऽपि तत्तद्रव्यादिप्रभेदगतिग्राह्यत्वात् / अन्त्ये भवोऽन्त्यः / अन्त्येऽपि तस्मिन् विशेष विशेषाभाव ' इत्यपिशब्दात् सम्बन्धः / को हेतुः? न द्रव्यादिप्रभेदगतिग्राह्यत्वात् / द्रव्यमादिर्येषां त एते द्रव्यादयः। द्रव्यक्षेत्रकालभावाः / तेषां प्रभेदस्तत्प्रभेदः। तत्प्रभेदेन गतिः परिणामो वृत्तिर्विकल्पो यथा कायस्येयं गतिरिति दृष्टत्वात् / तया गत्या ग्राह्यत्वं कस्यान्त्यविशेषस्य तस्मात्तद्रव्यादिप्रभेदगतिग्राह्यत्वान्नान्त्यविशेषः कल्यः। द्रव्यादिव्यतिरेकेण प्रत्यक्षानुमानाभ्यामग्राह्यत्वात्तत्सरूपेणैव ग्राह्यत्वाच्च / तद् यथा-योगी प्रत्यक्षेणैकं परमाणुं पश्यन् घणुकत्वात्प्रच्युतं पश्यत्यन्यं व्यणुकत्वात्प्रच्युताशनं / घणुकसमवेतमन्यं ज्यणुकसमवेतं च / द्रव्यतः स्वत एव च भिन्नानि तानि परमाण्वादिद्रव्याणि पश्यति / तत्र किमन्यविशेषेण / एवं क्षेत्रतः पूर्वभागस्थितमेकम् , अपरमर्वाग्भागस्थितं / कालतोऽपि किश्चित् प्रथमे समये स्थितमन्यं द्वितीये स्थितमागतं वा / युगपदागतयोरपि द्रव्यक्षेत्रकालभावकृतं नानात्वमस्त्येव / भावतः किञ्चित्कृष्णं शुक्त, किश्चित्सुरमिमसुरभि, तिक्तं कटुकं चेत्यादि / अथवा कृष्णमन्यं कृष्णतरं कृष्णतमं, द्विगुणत्रिगुणसंख्येयासंख्येयानन्तगुणकृष्णादि वा / एवं शेषवर्णेर्गन्धरसस्पर्शीश्च सप्रमेदैर्दर्शनं वाच्यम् // अन्यथेति / परस्परविशिष्टद्रव्यादिविशेषाभावे विषयनिरपेक्षत्वाद् योगिनाम