________________ 20 नयचक्रम् / [सामान्यविशेषाथापि द्रव्यभेदः / द्रव्यस्य घटादेरात्मनः स्वरूपपररूपाभ्यां द्विधारमावस्थान प्रसक्तं / परापेक्षत्वाद्विशेषस्य / स्यान्मतम् , पटाद्यवृत्त्यात्मक एव घटः। पटाद्यपेक्षत इति / तत्रेत्युच्यते-कर्हि वृत्तिसाहायकाइते सिद्धवृत्तेर्घटाद्यपेक्षासहायकं, वृत्तेः सहायकं वृत्तिसहायकं / घटवृत्तेः सहायभावं घटस्य मुक्त्वा स्वत एव सिद्धवृत्तेः पूर्वमेव घटस्य कान्योत्तरकालापटाद्यपेक्षा नास्त्येवेत्यर्थः / किं कारणं? प्रयोजनाभावात् / तथात्मैवास्य भिद्येत तेन प्रकारेण तथा घटस्वरूपमेव भिद्येत सहायापेक्षवृत्तित्वात् / शिविकोद्वाहात्मवृत्तिवत् / अथवा पार्थित्वादपेक्षास्ति घटस्य पटाद्यपेक्षेत्याह-का सा? समाना जातिः / समानजातित्वादपेक्ष्यते घटेन पटः / का समानजातिः / पार्थिवत्वं विशेषः / कथमिति चेत् ? घटात्मत्वाद्विशेषः पटादेरिति / अत्रोच्यते-विजातीयात्तर्हि विशेषाभाव उदकादेर्यदि समानजात्यपेक्षया विशेष इष्यते / एवं तबसमानजातीयादुदकादेर्घटस्य विशेषाभावः प्रामोति, अनिष्टं चैतत् / द्रव्यत्वापेक्षा तत्रापीति चेत् ? द्रव्यत्वं सामान्यापेक्षया। घटस्योदकादेर्विशेषो भविष्यतीति चेद्विजातीयाभ्यां गुणकर्मभ्यामविशेषः / न हि विजातीययोर्गुणकर्मणोर्द्रव्यत्वापेक्षास्ति / ताभ्यामपि च घटस्य विशेष इष्यते / तत्रापि नापेक्षेति चेत् / विजातीयात्तीत्यन्तासता सतः अविशेष इति वर्तते / एवमपि खरविषाणादेरत्यन्तासतो विशेषाभावः स्यादपेक्ष्याभावात् / किमिव जातेरिवाजातेः पार्थिवत्वजातेश्च भवसिद्धान्तेनापगतजाते॥त्यन्तरापेक्षा नास्ति, तस्यां कथं जात्यन्तरादुदकादेर्वा व्यक्त्यन्तराद्विशेषो भवत्यपेक्षाभावात् / कार्याद्वा कथं विशेष इति वर्तते / कार्य हि भवसिद्धान्ते प्रागविद्यमानं समवाय्यसमवायिकारणसान्निध्ये पश्चादुत्पद्यते, क्रियागुणव्यपदेशाभावादसत्कार्यमिति सिद्धान्ताभ्युपगमात् / कारणावस्थायां कारणानां कार्यस्यासत्त्वादेवापेक्षा नास्तीति विशेषाभावः प्राप्तः। निष्पन्ने चोपरतव्यापारावस्थायां सिद्धत्वात्कार्यस्य कारणानां कारणत्वाभा. वात्कार्यकारणविशेषाभावः। इतिशब्दो हेतूपसंहारार्थः / इत्युक्तहेतुपारम्पयोद्भावाभावयोरविशेषः। यथा पूर्वोक्तविधिना सतोऽसदसदपेक्षाभावाद्विशेषाभावः। एवमसतोऽपि तदपेक्षाभावादविशेषः / असतो वा कापेक्षा ? एवमनयोरविशिष्टत्वात्सत्वमेवाभावस्य भाववत् / असत्त्वमेव वा भावस्थाभाववत् / तथापि चोभयाभावः / भावाभावयोरभावः / सामान्यविशेषयोरात्मविशेषयोर्वा घटादेरिति / एवं तावद् घटादेः पार्थिवत्वाद्यपेक्षा न युक्ताभ्युपेत्यापि तदपेक्षां पार्थिवत्वादितुल्यत्वाच्च / तद्वत्तदात्मत्वं कार्यस्य / घटस्य कारणेन मृदा सह पार्थिवत्वेन धर्मेण तुल्यत्वात् / तद्वदिति घटस्य घटभावेनासत्त्ववत्तदात्मत्वम् / मृत्त्वं पार्थिवत्वा 1 का हि / 2 तथापि नापेक्षेति /