________________ -मुमानव्याख्यानम् ] न्यायागमानुसारिण्यलङ्कृतम् / 19 तथा विशेषोऽपीति / सोऽपि कल्पनाद्वयीं नातिवर्तते / खविषयः परविषयो वेति / तत्र यदि स्वविषयः विशेषविरोधः / विशेषस्य विरोधो विशेषाभावापत्तेः। विशेषेण विरोध आत्माभावापत्तेः / किं वाङ्मात्रेण नेत्युच्यते / यदि विशेषस्तत आत्मा न भवत्यन्यत्वाविशेषस्य / विशेषेण विरोधस्तावत् / यदि घटादावात्मनि विशेषेण विरोधस्तावत् / यदि घटादावात्मनि विशेषो वर्तते स्वविषयस्तत आत्मनोऽन्यत्वाद्विशेषस्य रूपादेर्देशतः परस्परतो विशिष्यमाणस्येति / तद्दर्शयति। गुणत इति / गुणतः कालतो वा प्रतिक्षणान्यान्योत्पत्त्या विनंष्टषु पुरुषादिषु कस्तदात्मेत्यात्माभावस्तदभावे कस्य विशेषः / अन्यथा घटादौ सामान्यापत्तेः / अन्यथेति / रूपादीनां समुदायैक्यापत्त्याभ्युपगमे विशेषपक्षत्यागः, सामान्यपरिग्रहं चापद्यते / तत्र चोक्ता दोषाः। सुखं सुखं च सुखादिसमुदयश्चेत्यादयस्त एवात्र. रूपं रूपं च रूपादिसमुदयश्चेत्यादयः। मा भूदात्माभावदोषस्तसिंश्चात्माभावे विशेषामावदोष इति पक्षान्तरं गृह्णीयात् / अथात्मा स विशेषः / आत्मैक एव स एवानन्य इति ततो विशेषो न भवत्येकत्वादात्मनः / घटादेर्वस्तुन एकत्वादात्मनस्तत्तत्त्वादित्यर्थः / अन्यो हि विशेषः / एतदोषपरिहारार्थमथोच्येत परेण-नैकत्वान्यत्वविरोधदोषौ / आत्मनो विशेष इति सम्बन्धापादानयोः षष्ठीपञ्चमी निर्देशे, भेदेनात्मनि विशेष इत्यधिकरणसप्तम्या निर्देशे वा स्यातामेतौ दोषौ / किं तर्हि ? आत्मैव विशेष इत्यनपादानादिप्रतिज्ञानान्नैकत्वान्यत्वविरोधदोषौ ममेति / अत्रोच्यते-यद्यात्मापेक्ष एव विशेष इति तत् प्रत्युच्चारणं द्वितीयविकल्प आयातो विशेषस्य विरोध इति / अत्राप्ययं दोषः। 'एक एवान्य' इत्यात्मनोऽन्यथाभवनात्मत्वं रूपादिरूपेण / किं वाङ्मात्रेण ? नेत्युपपत्तिमाहान्यथाभवनादिति / तनिर्देशयति घटरूपादिपूर्वोत्तराणामभावत्वं तत्कथं? / अन्योन्यरूपादय एव भवन्तीति घटाभावस्तदभावे कस्य विशेषः / घट एव वान्यथाभवन्तीति रूपाद्यभावः / ततश्चोत्तरेषां शिविकादीनां पिण्डावस्थातः पूर्वेषां च मृत्त्वादीनामभावः / अथवा घटतोऽन्यत्पटत्वम् / रूपतोऽन्यच्छब्दादित्वं / तेन प्रकारेणान्यथाभवनाद् घटाभावो रूपाधभावश्च, च तथा चोभयाभावः। आत्माभावो विशेषाभावश्च / अथवा रूपाद्यभावप्रापितो घटात्माभावो घटात्माभावप्रापितो रूपाद्यभाव इति / एतदनिष्टतायां तु परापेक्षोपपत्तिरिति घटादेरात्मनोऽन्यथाभवनादनात्मकत्वं न तेन विशेषस्यात्मनश्वाभाव इत्युक्तविरोधदोषानभ्युपगमे परापेक्षपक्षः परविषयो विशेषो न स्वविषय इत्यापन्नः। स किन्नामको दोष ? इति चेत् स्वपक्षपरित्यागनामकः / उपचर्य च एवमभ्युपगम्यमानेऽप्यपरो दोषस्त 1 तन्निदर्शयति / 2 प्राप्तो।