________________ 18 नयचक्रम् / [सामान्यविशेषाचायुक्तमनवस्थाप्रसङ्गात् / येन शब्देन समयः क्रियते तस्यान्येन कार्य इत्यनुषक्तः / उत्तरास्यार्थप्रतीतौ स्वसमयो न प्रकल्प्यते / तत्समयानपेक्षा स्वाभाविकी। यस्यार्थे वृत्तिः स नित्य इति चशब्दार्थसम्बन्धपरिज्ञानप्रयोगव्यवहारपरम्पराया अव्यवच्छेदादुक्तं / यथाह पतञ्जलिः'न हि तदेव नित्यं यत्तद् द्रवं कूटस्थमविचाल्यनपापोपजनविकायनुत्पत्त्यवृध्यद्वययोगि / किं तर्हि तदपि हि नित्यं यसिंस्तत्त्वं न विहन्यते तद्भावस्तत्वमाकृतौ चापि तत्त्वं न विहन्यत' इति / समयप्रत्याख्यानवत् / प्रतिपादनप्रत्याख्यानातिदेशो वृद्ध्यव्यवहारादाकारादिमात्रे प्रतिपत्तेरित्यदोषाय / न शब्दादेवेति वक्ष्यमाणत्वात् / तत्त्वसम्बन्धादृतेऽप्यभिधानप्रत्यययोः प्रवृत्ति दर्शयन्नाह - तथा ह्यन्तरेणेत्यादि / तत्वं च द्रव्यं समवेति / द्रव्यं च द्विधा-अद्रव्यमनेकद्रव्यं च। अद्रव्ये त्वाकाशादौ तत्त्वाभावे व्यक्तिप्रत्ययाबुद्धौ अनेकद्रव्यमारब्धद्रव्यम् / तच्च समवाय्यसमवायिकारणैरारभ्यते। समवायिकारणं घटस्य कपालानि, असमवायिकारणं तत्संयोगाः। आङिति च विध्युपायमर्यादार्थसङ्ग्रहार्थः / को विधिः? स्वतः स्वात्मनि च / उपायः संयोगादिनिमित्तान्तरसहितानि / का मर्यादा ? आ अन्त्यावयविद्रव्यात् / द्रव्याणि द्रव्यान्तरमारभन्ते विनाशोऽपि कारणविभागाकारणविनाशाद्वा। तत्र छिद्रयुक्ते घटे कारणविभागानुत्पन्ने संयोगाभावादारब्धद्रव्याभावेऽपि घटाभिधानप्रत्ययौ दृष्टौ / तथा कुड्यलिखिते समवाय्यसमवायिकारणाभावे शिशूनां च क्रीडनकेऽलाबुपाषाणादौ सद्भावासद्भावस्थापनाकृते भवेदेतदात्ममात्रेऽपि तु आकारमात्रसंस्थानमात्रे सादृश्यमात्र इत्यर्थः। तौ चोक्तिप्रत्ययौ तत्र तत्त्वस्य घटत्वस्योपनिलयनात् कृतमिति चेत् / तत्र तत्त्वाभाव उक्तः / सत्यपि च तत्त्वेऽसदिष्टाकारमात्रोक्तिप्रत्ययौ चोक्तौ / अथाप्याभासमात्रे तत्रोपनिलयमिष्यते त्वया ततः स्थाणुमृगतृष्णिकयो रसलिलत्वप्रसङ्गस्तत्र तदभिधानप्रत्ययसद्भावात् तत्तचोपनिलयनाच / घटत्वोपनिलयनाद् घटवत् / अनुपनिपाते नरत्वस्य स्थाणौ सलिलत्वस्य मृगतृष्णिकायां नरसलिलोक्तिप्रत्ययौ मा भूताम् / तौ च दृष्टौ कथमगृहीतविशेषणत्वानरत्वसलिलत्वानुपनिपातनेनायुक्तौ ? तत्रोपचारलभ्यौ हि तौ / इह तु लोकनये विनोपचारेण लभ्यो / कथमिति चेदनुपचरितकिञ्चिद्भूताकारात्तु किञ्चिदुक्तिप्रत्ययौ स्यातां ? भवितुमर्हतः। आकारस्थासम्पूर्णस्य दृष्टत्वादेव / भवत्पक्षे पुनर्न हि तत्त्वं किश्चिन्निलीनं किञ्चिन्निलीनमित्यस्ति / एवं तावत्सामान्य विकल्पद्वये विचारितम् / विशेषोऽधुना विचार्यः। तत आह १°यंश्चाह /