________________ -नुमानव्याख्यानम् ] न्यायागमानुसारिण्यलङ्कृतम् / तत्वात्सर्वार्थानां समयमपि तथा समवस्थानं नास्ति यथा समानता निरूप्येत परस्परनिरपेक्षोत्पादविनाशत्वादित्यर्थः / एवं सर्वैकभिन्नपक्षयोः सामान्यभाव उक्तः / पक्षान्तरेऽपि वक्तुकामः ग्राहयति / अथान्तरेण रूपप्राप्तिमित्यादि, यावसिद्धिरिष्यत इति / अन्तरेणैकरूपप्राप्ति मेदरूपप्राप्तिं वा / उक्तिप्रत्यया दण्डिवदिति नागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यते विशेषप्रत्ययानामनाकस्मिकत्वाच दण्डनिमित्तदण्डिप्रत्ययाभिधानवत् / दण्डोऽस्यास्तीति दण्डीत्यत्र हि दण्डसंयोगनिमित्तौ देवदत्ते दण्डयुक्तिप्रत्ययौ यथा दृष्टावेवं द्रव्यत्वघटत्वादिसामान्यविशेषसमवायनिमित्तौ द्रव्यघटायुक्तिप्रत्ययौ स्यातां, नान्यथा व्यक्तिभिन्नार्थसिद्विरिष्यत इति / उक्तिप्रत्ययाभ्यां द्रव्यघटादिव्यक्तितो भिन्नस्य द्रव्यत्वघटत्वादेरर्थस्य सिद्धिरिष्यते / एवं गुणकर्मणोश्च संख्योत्क्षेपणादिव्यक्तिभिन्नतत्तत्त्वार्थसिद्धिरेषितव्या। भिन्नेष्वर्थेष्वभिन्नोक्तिप्रत्ययदर्शनादिति / अत्रोच्यते-तत्र अन्यतोऽपि तयोः सिद्धेः / अपिशब्दान्नियमाभावेन लोकसिद्धं नामादिकमप्युक्तिप्रत्ययकारणमाह / कयोः सिद्धिरुक्तिप्रत्ययोस्तनियमाभावं दर्शयति / तौ हि कसिंश्चिदेवाकारमात्रे आदिग्रहणान्नाममात्रे, आकरणमाकारो, बुद्ध्या यो यथा परिगृह्यतेऽर्थः नाम्ना वा निर्दिश्यते स एव तस्याकारः। स च तावन्मात्रो न ततोऽधिको यथाकाशं / डित्थ इति वा स वान्या वाकाशादिषु विनानुवृत्त्याकाशकालदिशां, त्वन्मतेऽप्येकत्वात् / कुतो भिन्नेष्वभिन्नाभिधानप्रत्ययौ, कुतो वाकाशादि तत्तत्वानीति / दृश्यते चात्राप्युक्तिप्रत्ययौ, तस्मान्नास्ति सामान्यं / घटत्वादिसामान्योपचारात्तेष्वभिधानप्रत्ययाविति चेत् न, मुख्यसामान्यासिद्धेः / साधाभावाचोपचाराभावात् / तत्त्वपरीक्षायामुपचारस्थावकाशाभावात् / मिथ्याभिधानप्रत्ययत्वप्रसङ्गादाकाशादिष्विति। किं चान्यत् / सामायिकत्वाच्छब्दार्थे प्रत्ययस्य समयाय प्रभवति / समयः प्रयोजनमस्य समयभवो वा सामयिकः / यथोक्तं 'सामयिका शब्दादर्थे प्रत्यय इति न सामान्यनिमित्त इति / तौ चाभिधानप्रत्ययौ / लोकवृद्धव्यवहारात्मकौ, लोकवृद्धव्यवहारं दृष्ट्वा बालानामभिधानप्रत्ययौ भवतः / शिक्षितविचित्रशास्त्रव्यवहाराणामप्यन्वयव्यतिरेकात्मकावृद्धव्यवहारादेव / न तत्त्वानुवृत्तिव्यावृत्तिकृतौ / लोकस्य तत्तत्त्वाद्यज्ञानात् / न तत्तत्त्वात् / तत्तत्वाज्ञानात्तेषाम् / स्यान्मत-संज्ञाकर्म त्वमद्विशिष्टानां लिङ्गम् / 'प्रत्यक्षपूर्वकत्वात्संज्ञाकर्मणः' इत्युक्तं शास्त्रे / तस्मान्मन्वादयोऽन्तरालप्रलयमहाप्रलयेषु व्युच्छिन्नव्यवहाराणामपि शब्दार्थानां सम्बन्धं पश्यन्ति / तस्माद् घटपटत्वसमवायसम्बन्धोऽपि सामायिकोऽस्यायं वाचक इति यथायं पनस इति / 'समयं ग्राह्यते बाल' इत्येत१न भवत्यन्यथा / न.च.३