________________ नयचक्रम् / [सामान्यविशेषतैस्तदभूत्परस्परतश्च तानि यथाङ्गुलिर्वक्रप्रगुणताद्ययुगपद्भाविभावै रूपादियुगपद्भाविभावैर्देशेन तं द्रव्यान्तरैश्च विशिष्यन्ते / अङ्गुलिर्वक्रींप्रदेशेऽसिन्नाकाशस्य वर्तते / प्रदेशिन्यधुनेत्यादि / तथैकैकमपि वस्तु घटपटादिना केनचिनाभिसम्बध्यते तथा तथा विशेष्यते च तत्तद्भेदत्वसम्बन्धत्वाभ्याम् / प्रयोगश्चात्रद्रव्यादिविशेषेण सम्बन्धी घटः वस्तुभेदत्वे सति तत्सम्बन्धत्वाविकचसुरभिशरन्नीलोत्पलवत् / विकचमुकुलितादि क्षेत्रविशेषणं / सुरभिमीलनादि सहक्रमभाविरूपादिभावविशेषणम् / उत्पलमिति द्रव्यम् / तदपि तेषां विशेपणमेव, व्यवच्छेदकत्वात् / एवमनेकत्वसामान्यमापाद्य प्राक् / प्रीतिज्ञानपरविषयितायामप्यसमानावस्थानादसामान्यं परेषामिति / तदर्शयति-तत्र अन्यस्य कस्यचिदपोह्यस्य सदृशस्य तत्तत्त्वस्य वा समानस्याभावात्सामान्यानुपपत्तिः। एवमापादितपरस्परविशिष्टिकत्वजगतो घटैकत्वमात्रत्वेर्थान्तराभावात्कुतोऽर्थान्तरापोहलक्षणं विद्वन्मन्याद्यतनबौद्धपरिक्षिप्तं सामान्यम् / कुतो वा समानं दृश्यत इति सदृशं भावः सादृश्यमिति सादृश्यलक्षणं सामान्यम् / सदृशस्य तस्याभावात् / कुतो वा तत्तत्त्वम् ? / तस्य भावस्तत्त्वम् / तत्तत्त्वमस्य तत्तत्त्वम् / तत्तु भिन्ने भवति / समानानेकार्थानुवृत्तिलक्षणं सत्त्वद्रव्यत्वगुणत्वकर्मत्वादि / स्यान्मतं / परस्परविशिष्टैकत्वादेव तत्समुदयः / परविषयसामान्यमिति // . एतच्चायुक्तमित्यत आह-उदितदोषानुब?कसर्वत्वात् / स्वसामान्यापत्तिवों / यदुक्तं प्राक् / स तत्समुदायकायत्वसामान्यमित्यत्र / एवं सत्यात्मभेदः / सुखं सुखं च सुखादिसमुदयश्च तदात्मत्वादेवं शेषावपीत्यादि यावत्सामान्यविशेषयोश्च / तत्सम्बन्धित्वादेकतराभ्युपगमे नियमपक्षापत्तिरपीति / स्वविषयसामान्यापत्तिति / वाशब्दो विकल्पार्थः / स्वसामान्यपक्षाभिहितसर्वपूर्वोत्तरपक्षविकल्पप्रदर्शनार्थः / द्रव्यं द्रव्यं च द्रव्यादिसमुदयश्चेत्यादि विकल्पजातं सर्वमिहापि भवता योज्यम् / तथा सङ्घातावस्थानभेदाद्वा घटपटवदत्यन्तभेद एव सर्वार्थानां यदि सङ्ग्रहनयदर्शने / ननूक्तं सङ्ग्रहनयदर्शनेन एकमिति / सत्यमुक्तं / तत्तु सङ्घातेनावस्थितानां नोपपद्यते / दृष्टविरुद्धत्वादित्यभिप्रायः। ततः किमिति चेत्तथा हि-एवं च कृत्वा किं परमाण्वादीनां घटो भवति घटस्य वा कपालानीति / तद्विनाशजन्यत्वस्याप्यसम्बन्धं दर्शयति / आदिग्रहणाद् ब्यणुकत्र्यणुकादीनां ग्रीवादीनां चान्यत्र सङ्घातसमवस्थानभेदात् / समवस्थानकृत एव तेषां सम्बन्धः / तथा च समानं भवन्ति ते स्यान्मतमेवं व्याख्यातुस्तवैव मतेन परस्परविलक्षणानामर्थानां भेदादेवानवस्थानं प्राप्तम् / द्रव्यादिभेदभिन्नानामन्योन्यनिरपेक्षाणां सङ्घातसमवस्थानभावादित्यत्रोच्यते-अनवस्थाने वा नित्यप्र