________________ व्याख्यानम् ] न्यायागमानुसारिण्यलङ्कृतम् / 15 - इदानीं भाव उच्यते स तु पूर्वोक्तेषु द्रव्यादिषु भवनं भाव इत्युक्तत्वादुक्त एव तदर्शयन्नाह-द्रव्याद्यपि त्वित्यादि / 'गुणपर्यायवद्रव्यम्' ( ) इत्युक्तम् / गुणा रूपादयः शिविकादयः पर्यायास्ते युगपदयुगपद्भाविनः। त एव भावाः क्षेत्रकालौ द्रव्यमेव भवनसामान्याद्भाव एव वा तस्मान्न तानि द्रव्यादीनि युगपदयुगपद्भाविभावव्युदासेन भवितुमर्हन्ति कथंचिदपीत्युक्तवदेवेत्यतिदिशति / तथा भावना तेषामिति तदेव भवनं हेतुत्वेन व्यापारयति / अन्यथेति भवनसामर्थ्याभावे द्रव्यादीनां वन्ध्यादिपुत्रवदभावत्वापत्तेर्न सन्ति द्रव्यादीनि, भवनशून्यत्वाद्वन्ध्यापुत्रवत्। पञ्चमीनिर्देशात् तद्वैधर्येण भवनहेतुभावी तेनाह-नेष्यते च द्रव्यादीनामभावत्वम् / भावत्वमेवैषां भावं च भवनसम्बन्धी घटवत् / अतो द्रव्यादीनि भवनसम्बन्धीनि भवनद्रव्यादीन् व्यामोतीत्यत आह-भावोऽपि सर्ववस्तुतत्त्वव्यापीति / अत एवानित्यादि यावदपेक्ष्याणीति / एतस्मात्प्रतिपादितोपपत्तिबलाद्रव्यादीनि भावपर्यन्तानि भवनप्राधान्यप्रत्याख्येयानि / तस्माद् घटादिवस्त्वात्मसामान्यपक्षग्राहिणोऽपि स्वविषयसामान्यवादितेत्यर्थः / अपिशब्दाचाग्रहरक्तमनसापि सता त्वयावश्यापेक्षाणि / सारमारसषितव्यानीत्यर्थः (1) / किं कारणं? प्रत्यक्ष एव तथात्मत्वात्। दृश्यत एव हि द्रव्याघेकरूपभवनसामान्यतोक्तविधिना किमु परविषयमुख्यसामान्यपक्षवादिनेति / द्रव्यादीनां परस्परभिन्नानां समानभवनान्मुख्यं सामान्यं लोकं विविधसामान्यवादीव्यवहारनयानुयायित्वात् / ननु यथा साङ्ख्यादिषु सादृश्यान्यापोहतत्वादि प्रमाणविरुद्धं तत्त्वोपर्वतितं भवितुमर्हति। न मुख्यं साहश्यानुवृत्तीनां लोके समाने न भूयत इति सामान्यलक्षणस्यादृष्टत्वात् / दृष्टत्वाचासदिष्टस्य लौकिकस्य सामान्यस्येत्यत आह-प्रत्यक्ष एव तथा तथा परविषयस्य समानस्य भवनात् / तेन तेन प्रकारेण द्रव्यक्षेत्रकालभावापेक्षयुगपदयुगपद्भाविभावस्थ रूपा शिविकादिरूपस्य समानस्य भवनात् सर्वतत्रसिद्धान्तेन व्याकरणेन लोकानुवृत्तिना निरुक्तितत्त्वादिवादिनाप्याह-परेण समानेन भूयत इति समानो भवतीत्यर्थः / समानभावः सामान्यं यद्भवन्ति सर्वभावाः स तेषां भाव इति / स्वार्थिको भावप्रत्ययः। स्वभावसम्बन्धार्था चात्र कर्नुलक्षणा षष्ठी, तस्य भाव इति / यथा शिलापुत्रकस्य शरीरमिति / / एवं सामान्यं व्याख्यायेदानी तदर्थाऽनुसारेणानुमानमाह-तथा चेत्यादि यावद्विशेषणैकता। तथा चेत्येवं च कृत्वा प्रतिपादितपरस्परभेदस्य ते परस्परसम्बन्धैक्यापत्तौ च सर्वस्यास्य जगतो द्रव्यदेशकालभावापेक्षया तेन तेन प्रकारेण विशेपणैकता द्रव्यं क्षेत्रेण कालेन भावेन विशिष्यते / द्रव्येण क्षेत्रमितरौ च / एवं 1 तच्चोपवनितं०