________________ 14 नयचक्रम् / [सामान्यविशेषतदभावात् / क्षेत्रानुग्रहादेव तद्भावात् / यथासंख्यं रूपादि / ग्रीवाद्येकगमनसमवस्थानव्यवस्थापितपृथिव्यादिघटादि / यथा स्वप्रक्रिया वैशेषिकादीनां रूपरसगन्धस्पर्शवती पृथिवी / शब्दस्पर्शरूपरसगन्धात्मा पृथिवी / करकटलक्षणा वेति / एवं घटोऽप्यवयवी गुणसमुदयमात्रं / प्रज्ञप्तिसत्वेति विकल्पनामानं / लोकनये / ननु एवं हि रूपग्रीवाद्यवयवा रूपादयो ग्रीवादयश्चैकगतयस्तथा तथा समवस्थिताः पृथिव्यादीन् घटादींश्च व्यवस्थापयन्ति यत्र तत्क्षेत्रं / किं हि तत पृथिव्याः पृथिवीत्वं रूपायेकगतिसमवस्थानादन्यत् / घटस्य वा ग्रीवाद्यकगतिसमवस्थानादन्यद् घटत्वम् / तस्मात्सर्वगतिनिवासवृत्ति स्वतत्त्वं तत् / व्यापि विण्वस्येत्यादि यावद्विस्पन्दितस्य विण्वं सद्रव्यं च व्यामोति / युगपदयुगपद्भावि रूपादि शिविकादि भावविस्पन्दितम् / पृथिव्यादि घटपटादिविपरिणामजातं चेत्यर्थः॥ कालोऽपीत्यादि / कालोऽपि परविषयं सामान्यं / परिणामवती क्रियैव कालः। कलनं कालः कालसमूहो वा। यथा मासमास्ते, गोदोहमास्त इति / वर्तनं भवनमिति तत्पर्यायो वर्तनालक्षणो वा द्रव्यात्मा / स च युगपदयुगपत्कालस्य तत्त्वभूतपदार्थनिरूपितवृत्तिः / पूर्वोक्तरूपादिशिबिकादिपरिणतवत् / वक्ष्यमाणास्तिकायसलिलनिवर्त्यपृथिवीव्रीहिनरौदनादिवद्वा / तद्यथा-युगपद्धत्तिस्तावदनेकप्रभेदोपवणेत्यादि यावद् युगपद्वत्तिः। सांख्यादिप्रक्रियोपवस्ति एव हि धर्माधर्माकाशपुद्गलजीवास्तिकायाः सप्रभेदाः / अथवा पृथिव्यादय एवास्तिकाया विद्यमानकायास्ते यत्र यत्र युगपद्वर्तन्ते स तत्र युगपद्वृत्तिः कालः / यत्र चादानधारणेत्यादि यावनिर्वृत्तिवृत्तिष्वयुगपद्वृत्तिरिति / यथोक्तम् 'आदानीयास्त्रयो मासा त्रयो मासास्तु धारणाः / पाचनीयास्त्रयो मासास्त्रयो मासाधिसर्जनाः // इति / ईशान्याः पूर्व उत्तरः पूर्वोत्तरं च वायवः। शेषाः शेषकाः। अत्रापि प्रति प्रक्रियमादित्यसन्तापापीतसलिलधारणपाचनसर्जनवत् / धूमज्योतिः सलिलमरुत्सछातमेघादानधारणपाचनसर्जनवत् / विस्रसापरिणतपुद्गलविकाराभ्रत्वादिवद्वा / पुद्गलाविनाभावाद्देववैक्रियादेरपि / आदानाद्धारणम् / धारणात्पाचनम् / पाचनानिसर्जनम् / निसृष्टस्य सलिलस्य कार्याणि भूमिद्रवीभाववनस्पत्यौषधिंप्ररोहपुप्पफलप्राणिशरीराप्यायनादीनि / ततोऽपि कार्यान्तराण्याहारबलवपुःस्थामादीनि / घटपटादिनिवृत्तय एवेत्यादि / निवृत्तयः कार्याणि / तासां निवृत्तीनां वृत्तिष्वयुगपद्वृत्तिः काल एव / तदुपष्टम्भजन्यत्वात्तेषां भावानामिति //