________________ 13 भङ्गवृत्तिस्वरूपम् ] न्यायागमानुसारिण्यलङ्कृतम् / न चात्र डतरडतमौ प्राप्नुतः। कस्मात् ? अन्यत्कियद्यत्तदां निर्धारणे 'द्वयोरेकस्य डतरच् वा बहूनां जातिपरप्रश्ने डतमजि'त्यचैकशब्दस्यापठितत्वात् / एवं तातिशयिकस्तरप्प्रत्ययः / समानगुणेषु हि स्पर्धा भवति गुणवचनाभावान्नेति चेत् कारणस्वगुणतोऽतिशयो भविष्यति / एवं तर्हि तमवस्त्विति चेद्वयोर्द्वयोः प्रकर्षविवक्षायांतरपित्यदोषः। अथवा 'एकाचः प्राचाम् ( )इति जातिपरिप्रश्नेऽस्त्येव इतरजित्यदोषः / केनानवधृतमेकतरकारणत्वं द्रव्यादीनामिति चेत् / उच्यते-लौकिकर्व्यवहारनयप्रधानः स चाहतनयैकदेश एव / न पुनर्यथा शास्त्रकाराः सामान्यमेव विशेष एव द्रव्याद्यन्यतमदेककारणं कार्य चेत्यवधारयन्ति / कथं पुनर्द्रव्यादिकारणतावधार्यते न वेति उच्यते-द्रव्यं तावत् , तच्च द्रव्यमपि भवनलक्षणं व्यापीत्यभिसंभत्त्स्यते / अपिशब्दात् क्षेत्रमपि / सर्वतत्रसिद्धान्ते-व्याकरणे 'द्रव्ये च भव्य' इत्युक्तत्वात् / भवतीति भव्यं भवनयोग्यं वा द्रव्यं, द्रवति द्रोष्यति दुद्रावेति दुः, द्रोविकारोऽवयवो वा द्रव्यं / 'दु द्रु गतो' सदैव गत्यात्मकत्वाद्विपरिणामात्मकं हि तत् / ननु यथा गुणसद्भावो द्रव्यं क्रियावद्गुणवत्समवायिकारणमिति द्रव्यलक्षणमिति वा कथं भवतीति चेत् , भिद्यत इति भेदः भेदेन भवितुं शीलस्तस्या धर्मो वा साधु भवतीति भेदभाविनी मृत् / तस्या भवनं भेदभाविमृद्भवनं / तदेव परमोऽर्थः / कोऽसौ ? रूपादयः शिबिकादयश्च ते पुनर्यथासङ्ख्यं युगपदयुगपञ्च भेदभाविमृद्भवनपरमार्थरूपादिशिविकादयः। समानाधिकरणसमासः / पुनरपि तेषां वृत्तिरस्य तेषु वा वृत्तिरस्य तदिदं युगपदयुगपद्भेदभाविमृद्भवनपरमार्थरूपादिशिबिकादिवृत्तिः। किं तद्रव्यम् ? व्यामोतीति व्यापी। न क्वचिदपि न प्रवतते / यथा रूपादिशिबिकादयो मृदो भवनमात्रं तथा युगपद्भूतं पृथिव्यादेः परमार्थः। पृथिव्यप्तेजोवाय्वाकाशादिद्रव्यभवनमात्रम् / पृथिव्यां चाश्मलोष्टादि। तथापां हिमकरकादि / तेजसोऽप्यर्चिरादि स्वभेदा इत्यादि / अयुगपद्भूतं व्रीहिबीजाङ्कुरपत्रतालकाण्डपुष्पफलशूककणतुषादिपरमार्थ इति / सर्व द्रव्यभवनमात्रमेकपुरुषपितृपुत्रत्वादिवसात् तान् भावान् द्रवन्ति-भजन्तीति द्रव्यम् / क्षेत्रमपि व्याकरणसिद्धान्तगत्यैव 'क्षितिवासगत्यो:'( )इति सर्वस्य सिद्धं / सर्वगतिनिवासवृत्ति स्वतत्त्वं / गतिर्व्याप्तिर्निवासस्तथावस्थानं सर्वभावानां प्राप्यवस्थानोपकारेण वर्तत इति तद्वृत्ति स्वतत्त्वं प्रदेशरचनाविशेषो हि क्षेत्रम् / एकैकभावार्थसङ्घातसमवस्थानात्मा एकैकस्य घटपटादेर्भावस्थार्थे पृथुबुध्नादिरूपेण संहत्य समवस्थितस्यात्मा स्वरूपतत्त्वं प्रधानमित्यर्थः। किं कारणम् ? क्षेत्राभावे १°चेत्यव