________________ नयचक्रम् / [विधिनियमयोयावत् त्रित्वैकत्वादिव्यतिक्रमेणेति त्रित्वैकत्वादीत्युक्तपरामर्शः। यथा त्रित्वमेकत्वं च विरुद्धौ धर्माविष्यते / एवमवयवा अवयवी च / अन्यदनन्यच्चात्मा चानात्मा च सर्वमसर्वं चेत्यादि। आदिग्रहणात् सूक्ष्मं स्थूलं चेत्यादि सामर्थ्यादापादनीयम् , एष दृष्टान्तः / साधयं सदा त्रिगुणैकत्वादिति / त्रित्वैकत्वाद्यात्मस्वतत्त्वातिक्रमेणेति विरोधधर्मसम्बन्धः। अव्यतिरिक्तत्रिगुणैकरूपता चेष्यत इति / प्रधानस्यैव दृष्टान्तस्य वर्णनमेवमेव शब्दादाविति दार्शन्तिकोपनयः / त्रिगुणाव्यतिरेकैकरूपत्वं विरोधधर्मसम्बन्धश्च शब्दतन्मात्रादिषु तत्कार्येष्वाकाशादिषु भूतेष्वेकगुणादिवृद्धेषु तद्विकारेषु च गवादिघटादिषु च श्रोत्रादिष्वेकादशखिन्द्रियेषु च प्रधानधर्मा आपायाः। किं कारणम् ? तन्मयत्वात् / सत्यादिगुणमयं हि तत् / ततश्च सर्वस्यावस्थानात्प्रधानावस्थायामिव न किञ्चित्सूत्रादि पदादि वा कस्यचित्कारणं वा कार्य वा प्रमाणं प्रमेयं चेति / नियमाभावात्सर्वत्र यादृच्छिकी प्रवृत्तिः प्रसक्ता यदृच्छामात्रत्वात् / न प्रधानमहदहंकारादिकारणकार्यनैयम्यम् / ततश्च यदृच्छामात्रत्वादङ्गीकृतपुरुषार्थयत्नार्थहानिः / पुरुषश्चैतन्यस्वरूपस्तस्यार्थो द्विविधः / शब्दाधुपलब्धिरादिगुणपुरुषान्तरोपलब्धिरतस्तत् कृत्वा तद्विनिवर्तत इति / तस्मै पुरुषार्थाय यत्नः प्रधानस्य / तस्य यत्नस्यार्थः प्रयोजनं तस्य हानिर्यादृच्छिकत्वात् / तस्य च हानौ प्रधानपुरुषसंयोगत्रित्वपरिज्ञानार्थशास्त्रयत्नाहानिरपि // सामान्यविशेषयोश्च सम्बन्धित्वादित्यादि / यावन्नियमपक्षापत्तिरपि। सामान्यं, विशेष इत्येतौ परस्परसम्बन्धिनावाद्यन्तवत्पितापुत्रवद्वा / तत्र यदि सामान्यमभ्युपगम्यते विशेषापेक्षित्वात्सामान्यस्य विशेषेणोन्वस्यैष्यः / पितृत्वाभ्युपगमे पुत्रत्वाभ्युपगमत्वात् / विशेषाभ्युपगमे च सामान्याभ्युपगमस्तद्वदेवेत्यतस्ते बलादेव विशेषपक्षापत्तिरपि नियमपक्षापत्तिरित्यर्थः / अपिशब्दात्प्रागुक्तदोषापत्तिः। एवं तावत्स्वविषयत्वे सामान्यस्य दोषा उक्ताः / परविषयतायामप्यसमानावस्थानादसामान्य-अमुख्यसामान्यानां सदृशानुप्रवृत्तिव्यावृत्तिलक्षणानां परेष्टानां परविषयाणामसंभवात् / खेष्टसमानभवनलक्षणसामान्यसंभवात्परकीयसामान्यमेवेत्युपर्युपसंहरिष्यते / लौकिकस्तत्सिद्धं कृत्वा तावदाह-असमानावस्थानादसामान्यमिति / तत्पुनव्यक्षेत्रकालभावविषयं / ते हि द्रव्यादयः परे परैरिष्यमाणा घटादेर्वस्तुनस्तदपि परसदपेक्षया समानमित्युच्यते नात्मा तमेवेति परविषयम् , किं पुनः कारणं तदसामान्यम् ? इत्यत आह-अनवधृतैकतरकारणत्वादिति नावध्रियते द्रव्यमेव क्षेत्रमेव काल एव भाव एव वा कारणमिति / एवं तकतमकारणत्वादिति वाच्यं /