________________ भङ्गवृत्तिस्वरूपम् ] न्यायागमानुसारिण्यलङ्कृतम् / नामेककार्यभावात् / सुखानां शब्द-स्पर्श-रूप-रस-गन्धानां प्रसाद लाघव-प्रसवाभिष्वङ्गोद्धर्ष-प्रीतयः कार्यम् / दुःखानां शोष-ताप भेदापस्तम्भोद्वेगापद्वेषाः। मूढानां चरणसदनापध्वंसन-बैभत्स्य-दैन्य-गौरवाणी'ति / तथा करणात्मकाः श्रोत्रत्वक्-चक्षुर्जिह्वा-घ्राण-वाग्-घस्त-पाद-पायूपस्थ-मनांस्येकादश तैर्यग्योन-मानुदैवानि / बाह्याश्च भेदाः सत्वरजस्तमसां कार्य समन्वयदर्शनादिति / एवं पृथिव्यादि गवादि घटादि, तस्मात्सत्वादिर्घटादेरात्मा स हि तत्समुदायकार्यत्वात् सामान्यं, तस्मादात्मैव सामान्यमित्यत्र क्रमः। एवं सत्यात्मभेद: समुदायककायेत्वात्सुखायेकमसामान्यमितीष्टस्य सामान्यस्य भेदः / तत्कथम् ? इति चेदुच्यतेसुखं च सुखादिसमुदयं च सत्वं सुखम् , रजो दुःखम् , तमो मोहस्तत्रयमैकात्म्यात्रयमेकमेवेति / सुखस्य सुखत्वं तत्समुदायत्वं च प्राप्तं च किं कारणं तदात्मत्वात् / यस्मात्सुखाद्यात्मकः समुदायः समुदायात्मकं च सुखमेवं शेषावपीति / दुःखमोहावतिदिशति / एवं दुःखं दुःखं च दुःखादिसमुदायं च / मोहो मोहश्व मोहादिसमुदयं च। ततः को दोषः? इति चेत्ततश्च त्रिगुणविपरिणामकारणकल्पनावैयर्थ्यम् / समुदायैककार्याणां त्रयाणामेकत्वाभ्युपगमादेकस्तत् साम्यावस्थाविशेषः / तस्माचावस्थाविशेषादप्रच्युतत्वात् कुतो गुणानां वैषम्यम्, / वैषम्याभावे कुतः प्रकृतिर्महदहङ्कारतन्मात्रभृतेन्द्रियादि पूर्वोत्तरहेतुकार्यभावः / अत्राशङ्का-नित्यमेव त्र्यात्मकमिति चेत्प्रधानावस्थायामपि त्रिगुणत्वानित्यं सर्वकालं त्र्यात्मकं सत्वरजस्तमआत्मकमगुणवैषम्यविपरिणामकारणत्वादुपपद्यन्ते / सुखादिसमुदायात्मकत्वेऽप्यात्मभेददोषश्च नास्तीति / एतदपि वाङ्मात्रत्वादनुत्तरं। तथापि तु सुतरां तथैकत्वनित्यत्वात्प्रकाशप्रवृत्तिनियमभेदाभावादनारम्भः / एकत्वस्य नित्यत्वादेकत्वेन वा नित्यत्वात्सदैकत्वादित्यर्थः। प्रकाशप्रवृत्तिनियमकायभेदः / सत्वरजस्तमसां योऽभ्युपगम्यते भवद्भिराचार्य एव न पाखा(पा)णवत्तद् यथा-नाटकाचार्यः स्वहस्तोत्क्षेपणादिना प्रकाशात्मनात्मनो नर्तिकायाश्च व्यवतिष्ठते / पवनः पर्णचलनादिना स्वपरप्रवर्तनेन व्यवतिष्ठते / नौःस्तम्भनपाषाणकः स्वपरनियमने व्यवतिष्ठते / तथा 'सत्वरजस्तमांसी' त्येतनोपपद्यते / सर्वकालमेकत्वनित्यत्वात्तत्त्वाभावस्तदनारम्भः प्रधानावस्थायामिव गुणानां सर्वकालं कार्यानारम्भो निर्व्यापारत्वात् / वैषम्यनिर्मूलता चारम्भाभावात् उभयस्य चाभावः, कारणस्य कार्यत्वस्य च / अथवात्मनः सामान्यस्य च सुखादेः सुखदायिनस्तत्समुदायस्य च प्रधानस्य किं कारणमन्यतराव्यवस्थानेऽन्यतरस्याव्यवस्थानात् / तत्कथं भाव्यते? इति चेदुच्यते-यथा च प्रधानावस्थायामित्यादि १°म्यापन्न / 2 °समुदायिन°