________________ नयचक्रम् / [विधिनियमयोतु तीर्थ्यानां स्वपरविषयतायां सामान्य-विशेषयोरनुपपत्तेरसंस्ततो लोकाभिप्रायो विवेकयत्नः शास्त्रेष्विति / इतिशब्दो हेत्वर्थे; यस्मादेंतमर्थ प्रतिपादयिष्यामस्तस्माद् यथा लोकग्राहमेव वस्तु ततो लोकाभिप्रायाद् विवेकयत्नानर्थक्यम् / तत् कथमिति चेदुच्यते-सामान्य-विशेषौ हि स्वविषयौ परविषयौ वा स्यातां वस्तुनः। सामान्यं घटादेर्वस्तुन आत्मनि वर्तेत, परस्य वा पटादेरात्मनि घटाद् व्यतिरिच्यमाने? चतुर्वप्येषु विकल्पेषु साङ्कख्यादीनां दोष इति मन्यमानो लौकिकः पक्षं ग्राहयति दुदूषयिषुः सोपपत्तिकम् / तत्राद्य सामान्यं तावदेकस्य सर्वत्वात् / यदि स्वविषयं सर्वमेकमेकं च सर्व, कसात्? कारणस्य वै (श्व) रूप्याद् यथाऽऽह-'सर्व सर्वात्मकम्' यद्येवं कस्मात् सर्वमेकत्र नोपलभ्यते, सर्वत्र चैकमिति ? / उच्यतेदेश-कालाकार-निमित्तावबन्धात् तु न समानकालमात्माभिव्यक्तिस्ते मन्यामहे / जल-भूम्योरप्येतत् पारिणामिकं रसादि धैण्वं रूपं स्थावरस्य जङ्गमतां गतस्य जङ्गमाव्यवहृतवनस्पत्यादेर्जङ्गमशरीरपरिणामापन्नस / जङ्गमस्यापि. स्थावरतां गतस्य स्थावराव्यवहृतस्य तत्परिणतस्यैवं स्थावरस्य स्थावरतां गतस्य, जङ्गमस्य जङ्गमतां गतस्य / तस्मात् सर्वं सर्वात्मकम् / तत एकस्य सर्वत्वात् सर्वस्य चैकत्वात् स्वविषयं सामान्यं घटस्यात्मनि वर्तत इति परमतं प्रदश्र्योत्तरमाह यद्येवं सामान्यविरोधः सामान्यस्य विरोधः, सामान्येन च विरोधः / तत् कथम्? उच्यते-यदि सामान्यं तत आत्मा न भवत्यनेकार्थविषयत्वात् सामान्यस्य कश्चिदर्थः / केनचिदर्थन कैश्चिद् धर्मैः समानो भवतीति कृत्वाऽनेकार्थविषयं सामान्यं तसादनेकार्थविषयत्वात् सामान्यस्य वस्तुनः / स्वमात्मा घटादेरेकरूपस्य न भवत्येकत्वादात्मनः / सामान्यस्य च निवृत्तेरात्मनश्च / आत्माभावात् कस्स सामान्यम् ? / अथ मा भूदेष दोष इत्यात्मेष्यते / ततोऽपि न सामान्यमेकत्वादात्मनः / केन सामान्यं तस्येत्यात्मनः सामान्येन विरोधः / समानभावो हि सामान्यम् / सेना-हस्तिनोरिवेति / हस्त्यश्व-रथ-पदातिसमूहः सेनेत्यनेकार्थापेक्षां दर्शयति / हस्तीति चैकार्थतां दर्शयति / __ अथोच्यतेति स परिहर्तुकामस्य परस्याभिप्रायमाह-स्यादेव विरोधो यद्यात्मनः सामान्यमिति भेदेन स्वत्वमभ्युपगम्यतेति / यद्यपि व्यति [2] कार्थषष्ठी प्रापितस्वस्खाम्यादिभेदस्तथाप्यदोषो व्यपदेशिवद्भावात् / राहोः शिर इत्याद्यव्यतिरेकषष्ठीदर्शनादिति / किं तर्हि ? ब्रूमः-इह त्वात्मैव सामान्यम् / किं तत् ? घटादेः सत्त्वादिरात्मा / यथोक्तम्-आध्यात्मिका कार्यात्मका भेदाः शब्द-स्पर्श-रस-रूपगन्धाः पञ्चत्रयाणां सुख-दुःख-मोहानां सन्निवेशमात्रम् / कसात् 1 पश्चानां पश्चा. भ. याद्वि। 2 भ. उदु /