________________ सम्बन्ध-प्रयोजनम् ] न्यायागमानुसारिण्यलङ्कृतम् / व्ययुगपद्भावी' वा रूपादिः शिवकादिश्च यो यो भवति स एव स एवेति / पर्यायशब्दानां शेषाणामप्ययमों यथाक्षरं योज्यः / तयोर्भङ्गा विधिविधिरित्यादि / तत्र विधिरनपेक्षितभेदानुगतिव्यावृत्तिव्यापारो, यथा गौरिति / विधिविधिस्तु शुक्लादिभेदनियमवादिनं प्रत्यभेदप्रतिपादनव्यावृत्तः / कोऽयं शुक्लादिभेदो नाम गोत्वव्यतिरिक्त इति / विधिनियमोऽतिप्रसक्तस्य विशेषेऽवस्थापनं विधिप्रधानस्यैव तदंशेऽवस्थापनं यथा-गां शुक्लामानयेति / तदुभयात्मकं विधिविधेर्नियम विधिनियमं तु विधिश्च नियमश्च विधिनियमं द्वन्द्वैकवद्भावः / तुल्यकक्षौ विधि-नियमावेव सहितौ यात्मकं सर्वमिति / शेषा यथायोगमेतद्व्याख्यानुसारेण व्याख्येया भङ्गाः / सामान्येन तु कारणं विधिः, कार्य नियमः, उभयं विधिनियम, शेषास्तद्विकल्पा एव / एवं भङ्गाद् (न्) व्यवस्थाप्येदानी वृत्तिं व्याख्यातुकाम आह-तेषां विधिनियमभङ्गानां वृत्तिरिति / तस्यास्तु लक्षणं स्वविषयसम्पातनेन भावनानामात्मीय आत्मीये विषयेऽवतार्याऽऽर्यया तदर्था भाव्यन्ते / तथा हि-तथा भवन्ति नान्यथा' इति / नित्य एवाकृतकत्वादाकाशवत्, अनित्य एव कृतकत्वाद् घटवद् वेति / यथोक्तम्-द्रव्यस्यानेकात्मनोऽन्यतमैकात्मावधारणमेकदेशनयनान्नय इति / प्रत्यक्षानुमानाभ्यां पूर्वावस्थितास्थितमृत्त्वपृथुबुध्नादिसंस्थानोपादानकारणाभ्यां वृत्तितत्त्वमित्यत आह-जैनसत्यत्वसाधनवृत्तानुवृत्तिर्विवक्षितद्वादशविकल्पविशेषेणेति / तत्समाहारैकरूपतया तव्याख्यानमित्यर्थः / अनेकसम्बन्धे देवदत्ते पितृपुत्रत्वादिधर्मसमाहारैकरूपवस्तुतत्त्वान्वाख्यानवत् / अन्यथेत्येकान्तावधारणे प्रत्येकं स्वरूपानवधारणादवृत्तित्वमेव वक्ष्यमाणवदिति / तदित्थमिदमेव शास्त्रं वय॑तीति परस्परव्याहततत्त्वास्त्ववृत्तय एव ता इत्यर्थः / वृत्तितत्त्वविनिश्चिचीषायां सा च विध्यादिप्रत्येकवृत्तिरूपाख्यानसमधिगम्येति तयाख्या कार्या / किं कारणं तत्समुदायकार्यत्वात् तस्याः // इममर्थं विस्तरेण व्याख्यातुकाम उद्दिशति-तत्र विधिवृत्तिरित्यादि / तत्रैतास्वनन्तरोद्दिष्टासु विध्यादिवृत्तिषु विधिवृत्तिस्तावद् यथा / लोकग्राहमेव वस्तु लोकस्य ग्राहः / ग्राहवद् ग्राहः। यथा जलचरो ग्राहः प्राण्यन्तराण्यभ्योत्माकर्षति तथा लोकोऽपि स्वाभिप्रायसकाशं सर्वमाकर्षति / यो यो लोकग्राहो यथा लोकग्राह एवेत्यवधारणाल्लोकाभिप्रायं नातिवर्तते वस्त्वित्यर्थः / परीक्षकाभिमानिनां 1 प. °वी रूपकादि शिबिकादि च। 2 प. °योर्मागा। 3 भ. °ति विधिनियमं शे० 4 प. यव, भ. द्यवस्थाये / ५प.वि०।६भ. न भ. पूर्ववत् स्थि। ८भ. करणा। ९प. तत्वाद् व्या1१० प. निचिची।११ भ.त अथा। 12 स्यात्मानमा 13 भनामि० . न.च.२