________________ नयचक्रम् / [ मङ्गलाभिधेयकाणां प्रत्यक्षानुमानप्रामाण्यं प्रत्यविसंवादात् / पूर्वन्यायेन स्थितास्थितमृत्त्वपृथुबुनादिसंस्थानोपादानक(का)रणाभ्यां द्वयेन द्वयस्य वा प्रत्यक्षेणानुमानेन च तद्विनिश्चयपदार्थद्वयस्य संसिद्धिस्तथा सम्पादितः प्रत्ययः प्रमाणं जैन्यां प्रक्रियायाम् / तत एव च प्रतिष्ठापितमत्यन्तपरोक्षेप्यर्थे मेरूत्तरकुरु-द्वीपसमुद्र-विमान-भवन नरक-प्रस्तारप्रमाणादौ श्रद्धानं यसिंस्तदिदमूर्जितं जयतीति प्रत्यानायतेऽन्यथा प्रामाण्याभावाद् / यथोक्तम्-"प्रत्यक्षग्राहे च सिध्यति परोक्षाग्राहः सिध्यति / तदसिद्धौ सम्भावनाभाव एव प्रत्यक्षविसंवादित्वादुन्मत्तवाक्यवत्" इति // अस्य चार्थस्येत्यादि / यावद् गाथासूत्रमित्यनेन शास्त्रारम्भ-सम्बन्ध-प्रयोजनाभिधानम् / पूर्वमहोदधिसमुत्पतितनयप्राभृततरङ्गामग(गम)प्रभ्रष्टश्लिष्टार्थकणिक(का)मात्रमिति सम्बन्धः / न स्वमनीषिकयोच्यते / प्रमाणागमपरम्परागतमेवेदमित्यर्थः / अन्यतीर्थकरप्रज्ञापनाभ्यतीतगोचरपदार्थसाधनं प्रयोजनं शिष्यानुग्रहस्यान्यथा कर्तुमशक्यत्वात् / नयचक्राख्यमारभ्यं शास्त्रं तदन्तरेण तदसिद्धेः। शिष्यस्य प्रसङ्गविप्रसृतधियो मा भूद् व्यामोह इति संक्षिप्तार्थ गाथासूत्रमिदम् [विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनथकवचोवत् / जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् // ] . विधिनियमेत्यादि / अन्यशासनानृतत्वप्रतिपादनसाधनमिदमर्थापत्या तु भवति / शुद्धपदोचारणवद् विधिनियमभङ्गवृत्तियुक्तत्वाज्जैनं वचः सत्यमिति गम्यते / तद् व्याचक्षाणः सूरिविधि-नियमशब्दावलौकिकाविति परो मा मस्तेति तत्पर्यायशब्दानुच्चारयति-विधिराचार इत्यादि / विधीयत इति विधिर्भावसाधनो व्याहृतकों यो विदधाति स. कर्ता द्रव्यार्थः / को विदधाति ? पिण्डशिवकादिभावान् मृद् विदधाति / तया हि मृदा शिवकादयो विधीयन्ते लक्षणतस्त्वनपेक्षितव्यावृत्तिभेदार्थो द्रव्यार्थो विधिः / लोके दृष्टत्वात् / आदानं मर्यादया चारः आचार आत्मरूपापरित्यागः, पररूपानपेक्षः। एवं स्थित्यादिषु योज्यम् / पर्यायार्थतस्तु नियमः, निराधिक्ये आधिक्येन यमनं नियमः, परस्परप्रतिविविक्तभवनादिधर्मलक्षणः प्रतिक्षणनियतोऽवस्थाविशेषः। युगपद्भा 15. न्या। 2 प. निश्च / 3 प. °माणा। 4 प. सार्थ / 6 भ.ज्ञाना', प. °न्यती / 7 प. भ. 'तत्वाप्र। 8 भ. °णाऽ। १.प. शिबिका। 11 भ. °रः. आस्म। 12 भ. तिपक्षण / 5 भ. ध्येत् / ९प. हृक /