________________ सम्बन्ध-प्रयोजनम् ] न्यायागमानुसारिण्यलङ्कृतम् / तैः कृतं तेन विपर्ययप्रणयनेन निरुक्तीकृतं विसंवादत्वम् / तत् कथं प्रत्यक्षविनिश्चयस्तावत् / युगपद्भाविषु प्रतिनियतेन्द्रियविषयेषु / घटायचो(गो)रादृते ग्रहणाभावात् / न रूपादय एव / रूपाद्यन्यतमधर्मग्रहणद्वारमन्तरेण घटाद्यग्रहणात् तदभावे तदभावाचे न द्रव्यमात्रमेव / अयुगपद्भाविष्वपि पिण्डशिवैकादिषु मृदग्रहणे पिण्डशिवकाधग्रहणात् / मृदभावे पिण्डशिवकावभावात् न पर्याया एव / मृदोऽपि शिवकाद्यन्यतमावस्थाविशेषावस्थानमन्तरेणाग्रहणादभावाच्च न द्रव्यमेव / एतेनाम्यादि-धूमादिलिङ्ग-लिङ्गिव्यवहारो व्याख्यातः। कार्यानुमानविनिश्चयेऽपि न विशेषा एव निमूलत्वात् , खपुष्पवत् / न सामान्यमेवाविशेषितत्वात् , खपुष्पवत् / तस्मादेवं प्रत्यक्षानुमानविनिश्चयपदार्थेषु सर्वलोकप्रसिद्धेषु विपर्ययप्रणयनमन्यशासनिनां रूपादय एव घटो, घट एव रूपादयः / रूपादयं च घटं च (घटोऽवयवो) रूपादिगुणोऽवयवीत्यर्थः, न रूपादयो न घट इति वा / अश्रावणशब्दवादिवचनवदिति सर्वलोकप्रसिद्धेन्द्रियप्रत्यक्षविरोधिवचनोदाहरणादनुमातुं विरोधाद्यप्युदाहृतमेव / आशङ्कामपि सत्यत्वेन जनयितुमलमिति निःसन्दिग्धमेवासत्यत्वं तेपामित्यर्थः // ___ अपि च लौकिकव्यवहारोऽपीत्यादि / यावद् व्यामोहोपनिबन्धनमिति / सौतिशयबुद्धिभिरपि परीक्षकैनिरतिशयलोकप्रसिद्धनुवर्तिभिः परात्ममतविशेषप्रतिपत्ति-निराकरणतत्त्वप्रतिपादने कार्ये / इतरथा साक्षिविरहितव्यवहारवदनियताथैवें परीक्षा स्यात् / लौकिकास्तु नित्यानित्यावक्तव्याधनेकान्तरूपमेव घटादिकमर्थमव्युत्पन्न अ(म)पि प्रतिपद्य व्यवहरन्तो दृश्यन्ते / तदपह्नवप्रवृत्तयश्चैकान्तवादा नित्य एवानित्य एवावक्तव्य एव घट इत्यादयः। तत्र शेषशासनेषु साध्विदं साधु त्विदमिति विचारो व्यामोहस्यैवं निबन्धनं हेतुरित्यर्थः / विचारानवकाशात् विसंवादाच्च / __लोकप्रत्यक्षादिनिश्चयेऽपि किं पुनरतीन्द्रियार्थे शेषशासनविसंवदनजनितास्थं च शेषशासनानां विसंवदनेन जनिता आस्था अस्मिन् जिनशासनेऽसाकमिदं वरिष्ठमिति परपक्षदौःस्थित्यादेव स्वपक्षसिद्धिरावीतेनेति / अथवा स्वपक्षसौस्थित्याऽनुमानमप्यस्तीत्याह-प्रमाणद्वयसंसिद्धीत्यादि / लौकिकपरीक्ष 1 भ. "तत्रे नावि / 2 भ. "क्ततं / 3 भ. घटयोवाराहते, प. घटद्योवारादने / 4 प. ताव-तदभावाच / ५प. शिबिका। 6 प..षा एव / 7 भ. झंलिङ्गं लि। 8 भ. °नु वि°। ९भ. नयति तु। 10 प. सतिशययु। 11 प. काये। 12 प. दिनियतार्थव / 13 प. हारतो, भ. हारते त। 14 प. ढेव प्रभृतया / 15 प. भ. साध्वेदं। 16 भ. °स्येव /