________________ नयचक्रम् / [मङ्गलाभिधेयगले पादं कृत्वा जयतीत्यभिप्रायः / यदेवंविधमिति यद् योगिनामेव सर्वथा गम्यम्, न गम्यं क्वचिदप्यन्येषाम् / 'वाचां भागमतीत्य वाग्विनियतं' व्याप्येकस्थमनन्तमन्तवदपि 'न्यस्तं धियां पाटवे व्यामोहे जगत्प्रतानविसृतिव्यत्यासंधीरास्पदम् / जगत्प्रतानविसृतिव्यत्यासेन धीरमास्पदमचलं प्रतिष्ठानं च यस्य तत्र किमाश्चर्य जयत्यूजितं चेति / किं तर्हि एवं विधतैव तु प्रतिपादनीया / अन्यमतासाधारणगुणता, सैव विरोधधर्मसम्भावनाभावाद् दुष्प्रतिपादेत्यभिप्रायः। अत्राचार्य आह-किमेवं प्रतिपाद्यमस्ति ? / प्रतिपादितमेव तत् / यसाद् द्रव्यार्थ-पर्यायार्थेत्यादि / द्रव्येणार्थो द्रव्यार्थः, द्रव्यमर्थोऽस्येति वा / अथवा द्रव्यार्थिकः, द्रव्यमेवार्थो यस्य सोऽयं द्रव्यार्थः 'स्वार्थिकोऽयं ठन्प्रत्यय द्रव्यार्थिकः / एवं पर्यायार्थः पर्यायार्थिको वा 'अर्थाचासन्निहित [ ] इति वचनादर्थ-प्रत्यर्थिवदिनिरेव स्यादिति चेत्, नासन्निधानाभावात् तदर्थस्य / अथवाऽस्तीत्यस्य मतमास्तिकः / द्रव्य आस्तिको द्रव्यास्तिकः। तयोर्द्वयोर्भावो द्वित्वं न तदादयः / अनन्तांशा विकल्पाः / वचनपथतुल्यसङ्ख्यपरसमयतुल्यसङ्ख्यत्वान्नयानाम् *"जावइया वयणपही तावडा चेव हुंति" णयवायाँ / जावइआ णयवाया तावड़ा चेव परसमया // " [सन्मतितर्के का० 3, गा० 47] एवंविधविकल्पोपक्लुप्तनयजालोपष्टम्भविधिभेदपदार्थानामेकवाक्यविधिस्तस्य विधानादशेषज्ञानान्यवयवा अस्य सर्वनयजनितानि / अवबोधसमुद्र एवाभेदेनावयवीभूतो यसिंस्तदवबोधसमुद्रावयवीभूतं शासनं दुरवगाहगम्भीराक्षोभ्यपदाऔरत्नाकरत्वसामान्यात् / एवं विधमेवेत्युक्तनयतरङ्गभङ्गसङ्ग्रहप्रस्तारात्मकमविकलपदार्थावद्योतम(प्र)द्योतमा(ना)दनेकादित्यसमूहवत् कृतप्रकाशं तमसोऽवकाशाभावात् सवितसहस्रवद् भास्वरत्वादनभिभवनीयम् / तद्व्यतिरिक्ताः शासनिनः कपिल-व्यास-कणाद-शौद्धोदनि-मस्करिप्रभृतयः / तेषां वचनानि प्रत्यक्षानुमानविनिश्चेयपदार्था रूपादयो" घटादयोऽग्न्यादयश्च तेषां विपर्ययेण प्रणयनं * यावन्तो वचनपथास्तावन्तश्चैव भवन्ति नयवादाः। ___ यावन्तो नयवादास्तावन्तश्चैव परसमयाः // 1 प. जगती / 2 भ. °म्यं क्व। 3 प. मोके / भ. मोज / भ. व्यत्यास्प। 5 भ. संभावाद्। 6 प. यः किं , भ. किमय। 7 भ. दि द्रव्यम। 8 भ. सेयं / ९प. उन् / 1. भ. प्रर्या / 11 भ. त्रा वि०। 12 प. 'तुल्यत्वा / 13 भ. तिया। 14 भ. पधा। 15 भ. होति / 16 भ. °वादा। 17 प. मेवा। 18 भ. योऽग्न्यादयं /