________________ सम्बन्ध प्रयोजनम् ] न्यायागमानुसारिण्यलङ्कृतम् / न्यविशेषाख्यं, तत् तत्त्वमिति द्रव्य-पर्यायनयद्वयाश्रयणेन पदार्थप्रणयनं काणभुजे / तथा द्रव्य-गुण-कर्माणि नानेति प्रतिज्ञाय तदत्यन्तभेदे नीलोत्पलादिसद्रव्यादिसामानाधिकरण्यविशेष्यत्वादिव्यवहाराभावदोषभयात् तत्सिद्ध्यर्थ 'सदिति यतो द्रव्य-गुण-कर्मसु द्रव्य-गुण-कर्मभ्योऽर्थान्तरं सा सत्ता [वैशे० अ. आ. 3 सू. 7-8] इत्याश्रितपदार्थव्याजेन द्रव्यार्थ-पर्यायार्थाश्रयणं सङ्करदोषपरिहारार्थं च सामान्यस्यान्त्यविशेषस्य च परिकल्पनेति / वाचां भागमतीत्य वाग्विनियतमिति / प्रज्ञापनीयेष्वेव भावेष्वनन्तासङ्ख्येय-सङ्ख्येयभागगुणहानि-वृद्धिभ्यां क्षयोपशमविशेषापेक्षया मतिविशेषाभ्युपगमाचतुर्दशपूर्वधराणामेव परम्परतोऽद्यतनपुरुषेन्द्रियशक्त्युत्कर्षापकर्षवत् / उक्तं च *"जं चोद्दसपुव्वधरा छट्ठाणगया परोप्परं होति / तेणं तु अणंतभागो पण्णवणिजाण जं सुत्तं // पणवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं / पण्णवणिजाणं पुण अणंतभागो सुअणिबद्धो // अक्खरलंभेण समा ऊणहिआ होति मइविसेसेहिं / ते "वि य मईविसेसे सुअणाणभंतरे जाण // " [विशेषावश्यकभाष्ये गा. 62-64] शेषशासनन्यग्भावेन वेत्यादि / परवादतिरस्करणेन जेष्यत्येव / तदवश्यं स्तुतिद्वारेण भवता तत्सामाङ्गीकरणात् / नूनमेतत् प्रतिपादयिष्यति भवान् / तदनुरोधेनैव कस्यचिदिति / किं तत् कस्यचित् प्रसादेन जयति ? विवदमानस्य * यत् चतुर्दशपूर्वधराः षट्स्थानगताः परस्परं भवन्ति / तेनानन्तभागः प्रज्ञापनीयानां यत् सूत्रम् // प्रज्ञापनीया भावा अनन्तभागस्तु अनभिलाप्यानाम् / प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः॥ अक्षरलाभेन समा ऊनाधिका भवन्ति मतिविशेषः / तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि // 1 भ. °यभा। 2 प. समिति°। 3 प. भ. परस्प°। 4 प. चउदस। 5 प. परुप्प। 6 प. तेणं अ। 7 प. पनव। 8 भ. सुत° / 9 भ. 'हिया / भ. मती / 10 प. हुंति / "भ. सेण / 12 प. चिअ मई विसेसो। 13 प. नाण।