________________ नयचक्रम् / [मङ्गलाभिधेयअनेककारणत्वप्रसङ्गात् , अनेककारणत्वस्य सिद्धेः / अनेककारणत्वेऽपि सदाद्यविशेषात् / अनन्वयस्याभावात् इत्यादिदोषात् कालोऽपि नियतिरपीत्यादि / एकान्ते दोषदर्शनादनेकान्ते चादोषप्रदर्शनाल्लौकिकवादसंवादि / यथोक्तम् "क्वचिनियतिपक्षपातगुरु गम्यते ते वचः स्वभावनियताः प्रजाः समयतत्रवृत्ताः क्वचित् / स्वयंकृतभुजः क्वचित् परकृतोपभोगाः पुनने वाविशदवाददोषमलिनोऽस्यहो! विमयः // " इति // [सिद्धसेनद्वात्रिंशिका 3, श्लो०८] तदेवंविधं शासनमूर्जितं स्वातन्त्र्यात् परमतोपजीवनवैक्लव्यरहितांत् परैराघातस्य सुसिद्धान्तात्यागात् कल्पनान्तराश्रयणाभावात् अनाकुलत्वाच जेतत्वाद् वोर्जितमनन्तरोक्तैर्हेतुभिर्जयति परस्परानुवर्तिनयोत्साहवलसम्पदुपेतत्वाद् वा जयत्येवोदितपुण्यनयोपेतचक्रवर्तिशासनवत् / तत् तु सर्वथा योगिनां गम्यम् , सर्वनयप्रपञ्चसंस्कृतधियामतनुविषयप्रज्ञत्वात् तेषाम् / असदादिभिरेकदेशमाहात्म्यदर्शनाच्छेषमाहात्म्यमनुमानेन गम्यते / न गम्यं कचिदिति / यथैकदेशंगम्यत्वेऽनभिभवनीयत्वेऽप्यन्यत्र गम्यताविषयः खण्ड्यते तथा मा भूदिति न गम्यं कचित् / अथवा गमनीयं गम्यं प्रतिपादनीयं न गम्यं प्रतिपादनीयं लोकप्रसिद्धव्यवहारानुपातिस्याद्वादपरिग्रहस्फुटपदार्थत्वात् / एकदेशगतेः शेषसुगमत्वात् / अयोग्यपुरुषापेक्षया वा न गमयितव्यम् / यथा "स्थूलमतये न वाच्याः सूक्ष्मा अर्थाः स तानगृह्णानः।। व्याकुलितमन्य(ना) मिथ्यात्वं वा गच्छेदपरिणामात् // " अथवा प्रागसमीक्ष्योक्तार्थसमीकरणार्थ कल्पनान्तरैर्न गमनीयं कचित् / यथा बौद्धे सर्व क्षणिकमिति प्रतिज्ञाय स्मृत्यभिज्ञान-चन्ध-मोक्षायभावदोषपरिहारार्थ सन्तानकल्पना / प्रधाननित्यती प्रतिज्ञाय परिणामकल्पना व्यक्तात्मता कापिले / 'क्रियावद् गुणवत् समवायिकारणम्' [ वैशेषिकदर्शने अ. 1, सू. 15] इति सामान्यद्रव्यलक्षणं प्रतिज्ञायैकान्तनित्यानित्यवादे च तदव्याप्तिपरिहारार्थमद्रव्यमनेकद्रव्यं च द्विविधं द्रव्यमिति / दैव्यं च सामा १प.तविप। 2 प. ते व।३ भ. ने वाद। 4 प. जीवि न / 5 भ. व्यविर०। 6 भ. °त् घ्रा / 7 भ. सिद्धता। प. स्वायजे०। ९प. भ. 'शाग। 10 प. नाभि / 11 प. भ. व्यखण्डयतेस्तथा / 12 प. बौद्धौ, भ. बौद्धैः। 13 प.क्षाभा / 14 भ. नपरिक। 15 भ. त्यति / 16 प. त्मना। १७भ. तनित्यवादं। 18 भ. व्यत्वं /