________________ सम्बन्ध-प्रयोजनम् ] न्यायागमानुसारिण्यलकृतम् / सिया सासया सिया असासया। से केणटेणं भंते ! एवं वुच्चा सिया सासया सिया असासय त्ति? / गोतमा ! दबट्टयाए सासया, वण्णपञ्जवेहिं गंधपजवेहिं रसपञ्जवेहिं फासपजवेहिं संठाणपजहिं असासयो।" [ जीवाभिगमे 3 / 1178 प. 98 ] इत्यादि 'न्यस्तं धियां पाटवे' न्यस्तं निक्षिप्तं धियामाभिनिबोधिकज्ञानभेदानां पटुतायां कर्तव्यायां कारणत्वेनेत्यर्थः / यथोक्तम्__ * "जत्थाभिनिवोहिअनाणं तत्थ सुअंनाणं / जत्थ सुअंनाणं तत्थाभिनिवोहिअनाणं" [ नन्दीसूत्रे, सू. 24 प. 140 ] ति / श्रुतज्ञानसंस्कृतधियां नित्य एवानित्य एवावक्तव्य 'एवेत्येवमायेकान्तवादिग्राहेषु घटादेः कुम्भकारादिवेतनदानाद्यभावप्रसङ्गान्न नित्य एव, चिकीषो-स्मरण-प्रत्यभिज्ञान-संरक्षणाद्यभावप्रसङ्गानानित्य एव, स्वरूपानवधारणे वाग्व्यवहारोच्छित्तिप्रसङ्गादवक्तव्य इति, वक्तव्यत्वावक्तव्यत्वयोः स्ववचनविरोधानावक्तव्य इत्येवमादिदोषप्रदर्शनेन स्थानित्यः, स्यादनित्यः, स्यादवक्तव्य इत्यनेकान्ताभ्युपगमाद् यथाप्रमाणं धर्मधर्मिव्यवस्थानात् तदोषपरिहारेण वस्तुस्वरूपोपपादनेन परमतनिषेधानुज्ञानाभ्यां प्रवादिनां परस्परविरोधनिरोधैकवाक्योपानयनान्मध्यस्थसाक्षिवत् प्रमाणीभूतं तेषामपि तत्त्वावबोधपाटवाधानसमर्थत्वात् / स्यान्मतम् / नन्वत एव स्थाणु-पुरुषादिविषयसंशयविपर्ययवन्नित्यानित्यायेकान्तविकल्पात्मकत्वाद् व्यामोहहेतुरपि काल-नियति-स्वभाव-पुरुष-दैवेश्वैर-यदृच्छायेकान्तकारणविकल्पजगत्प्रतानविसृतिदर्शनादिति / अत्रोच्यते-न, व्यत्यासधीरास्पदत्वात् / एकपुरुषपित-पुत्रत्वादिवत् / जैनं हि शासनं कालादिजगत्प्रभेदैकान्तगतीळत्यस्य व्यावर्त्य परस्परविरोधनिवारणेनानेकान्तात्मकप्रतिष्ठानसमाधानकारणमेकान्तानेकवादसमाहारात्मकैकप्रतिपत्तिकं परमतनिषेधानुमोदनाभ्यामेव न काल एव, न नियतिरेव, एककारणवादिनां कारणसत्त्ववत् कार्यसत्वेऽनैकान्तिकत्वात् / कारणस्यापि कारणत्वेऽनवस्थादोषात् , स्थादशाश्वतीति ? / तत् केनार्थेन भगवन् ! एवमुच्यते स्यात् शाश्वती स्यात् अशाश्वतीति ! गौतम! गव्यस्थित्या शाश्वती, वर्णपर्यवैर्गन्धपर्यवै रसपर्यवैः स्पर्शपर्यवैः संस्थानपर्यवैरशाश्वती // * यत्राभिनिबोधिकज्ञानं तत्र श्रुतज्ञानम् / यत्र श्रुतज्ञानं तत्राभिनिबोधिकज्ञानम् / प. सिम। 2 भ. °सत। 3 प. गो। भ. 'ताए। 5 भ. सता। 6 प. निःक्षि। ७°कभे। 8 भ. "णिबोधियणाणं / 9 भ. सुतणाण। 10 भ. एवेमा / 11 भ. त्वात्व। 12 प. वथेर। 13 अ. विकल्पाज। 14 प. °तारवि। 15 प. र व्य। 16 अ.न्तजगती / 17 भ. परवि। 18 भ. °णवत्त्वे।