________________ नयचक्रम् / [ मङ्गलाभिधेयतथा गति-स्थित्यवगाह-वर्तनालक्षणैर्धर्माधर्माकाश-कालरापेक्षिकैर्जीवानामपि स्वाभाविक-पारमाविकैरुपयोगशरीरादिभिरतस्तस्य तस्य वस्तुनो द्रव्या दिष्टस्य तेषु तेषु परिणामेष्वव्यावृत्तखरूपत्वात् तेषां च तथा तदभेदात् सर्वेषां द्रव्यपर्यायाणां परस्परतश्च सदविशेषात् तादात्म्यमतस्तत् तद् व्यामोतीति व्यापीत्युच्यते / एवं च सति संमुग्धत्वाद् वस्तुनस्तद्विषययोरभिधान-प्रत्यययोर्व्यवहार-निश्चयफलयोरभावादिदोषाः स्युः, मा भूनिति पर्यायादेश आश्रीयते / एकस्यमिति / प्रत्येकपरिसमाप्तेरसाधारणधर्माणां भावानामसङ्कीर्णरूपत्वेन वत्तिप्रतिलम्मान हि कश्चित् कश्चिदपेक्ष्य भवितुमर्हति भाव इत्येकमेकमेव वस्तु तदर्पणादेकस्थमिति चोच्यते शासनम् / तस्यै पृथक्पृथगर्पणात् ख-पररूपतः समग्रादेशवशाद् व्यापीति"। व्यापि चैकस्थं चैकमेव तत् / एवमुत्तरेष्वप्यनन्तमन्तवदपि द्रव्य-क्षेत्र-काल-भावादेशैरविशेषितत्वाद् विशेषितत्वाच / यथोक्तम्___* "एयं दुवालसंगं गणिपिडगं दवतो ऍगं पुरिसं पडुच्च सादियं सपजवसियं / अणेगे पुरिसे पडुच्च अणादियं अपज्जवसिअं। खेत्ततो भरतेरवते पडुच्च सादिअं सपजवसि। महाविदेहे पड्डुच्च अणादियं अपजवसि / कालओ उसप्पिणि-अवसप्पिणीओ पडुच्च सादियं सपज्जवसिअं, णोउसप्पिणि-अवसप्पिणीओ पडच्च अणादिअं अपजवसि / जे जदा(हा) जिणपण्णत्ता भावा / " [नन्दीसूत्रे सू. 43 प. 195] * इत्यादिना सादिकं सपर्यवसितमेव / अथवा नासिनन्तोऽस्तीत्यनन्तमन्तोऽस्तीत्यन्तवत् / कस्य ? अविशेषितत्वात् सर्वस्य / तद् यथोक्तम् "इमा णं भंते ! रयणप्पभा पुढवी किं सासया असासयों ? / गोयमा! * एतद् द्वादशाङ्गं गणिपिटकं द्रव्यत एकं पुरुषं प्रतीत्य सादिकं सपर्यवसितं, अनेकान पुरुषान् प्रतीत्य अनादिकमपर्यवसितम् / क्षेत्रतो भरतैरावती प्रतीत्य सादिकं सपर्यवसितम्, महाविदेहान प्रतीत्य अनादिकमपर्यवसितम् / कालत उत्सर्पिण्यवसर्पिण्यौ प्रतीत्य सादिकं सपर्यवसितम्, नोउत्सर्पिण्यवसर्पिण्या प्रतीत्य अनादिकमपर्यवसितम्। ये यथा जिनप्रज्ञप्ता भावाः। + इयं ननु भदन्त ! रत्नप्रभा पृथ्वी किं शाश्वती ? अशाश्वती ? / गौतम! स्यात् शाश्वती, म.क्षकै / 2 प. °माणेष्व / 3 प. द्रव्याणां प°। 4 प. सस्पति, भ. सत्यपि ति / 5 भ. सन्मु / 6 प. रविनि / ७प. भूय। 8 भ. स्थति / 9 भ. °स्तवृ / 10 प. वास्मस्थमिति वो। ११भ. तस्य तस्य तस्य / 12 भ. °ति चैकमे। 13 भ. संगणि। 14 भ. एकं / 15 भ. 'दियं / 16 भ. सियं। 17 भ.लड उसपि उसप्पिणीउ। 18 भ. सादियं सपजवसितमेव / 19 भ. °सता गोतमा।