________________ दर्दोषोद्भावनम् ] न्यायागमानुसारिण्यलकृतम् / 47 रोधः / न च तेन शास्त्राभ्युपगमेन / किं तर्हि ? तत्कालाभ्युपगमेनेत्यर्थः। स च सर्वत्राभ्युपगमविरोध इति / अथ प्रतिज्ञैवाभ्युपगमः / स्यान्मतं-न हि पदप्रयोगविषयोऽभ्युपगमोऽस्ति पदार्थाभावात् / पदार्थस्योत्प्रेक्षाविषयत्वाद्वाक्यार्थाधिगमोपायत्वेनोद्धृत्य वाक्यार्थो व्याख्येयत्वात् / वाक्यमेव शब्दस्तदर्थ एव च शब्दार्थस्तस्मात्प्रतिज्ञैवाभ्युपगमस्तत्साधनार्थत्वाच्छेषवाक्यावयवव्यापारस्य / कस्मात् ? तस्माल्लोकाप्रामाण्यात् / ततस्तस्याः प्रतिज्ञायाः हेतुभूतायास्तद्वलादित्यर्थः / लोकाप्रामाण्यात् / लोकस्याप्रमाणत्वसिद्धेः / नित्यः शब्दोऽकृतकत्वादाकाशवदिति / नित्यत्वे सिद्धे तद्बलान्नित्यानित्याद्यनेकरूपैकवस्तुप्रतिपत्तिर्लोकोऽप्रमाणीभवतीति / अत्रोच्यते__न त्वविशेषादिष्वसतः पक्षादेरुपादानाल्लोकाभ्युपगमादिति / सर्वं सर्वात्मकमित्येतस्मिन्नविशेषकान्तेऽभ्युपगते पुनर्नित्यः शब्द इत्यस्य पक्षस्य तद्धेतोदृष्टान्तस्य चाभावः। पूर्वोक्तेभ्यो हेतुभ्यो निर्विशेषत्वादिभ्यस्तथा विशेषकान्ते पूर्वोक्तहेतुभ्य एव परोक्षादीनामभावो नमूलत्वादिभ्य उभयानेकत्वैकान्तेऽपि परस्परविभिन्न स्वभावानां सामान्यविशेषाणां कार्यकारणानामभाव इत्युक्तं / तस्मादविशेषादिष्वसतः पक्षादेर्लोकप्रसिद्धस्योपादानाल्लोक एव पुनरभ्युपगतो भवत्यगतिभिः शास्त्रविद्भिः, तस्माल्लोकाभ्युपगमाल्लोकः प्रमाणीकृत एव / किञ्चिदकिश्चित्तथान्यथेत्यादिपरस्परविलक्षणव्यवहाराभ्युपगममाहे / लोकप्रामाण्यं न सिद्ध्यतीति / ते यूयं सुदूरमपि गत्वा लोकमेव शरणं गन्तुमर्हन्त्वशास्त्रविदः / एवं शास्त्रव्यवहारो लोकदर्शनमन्तरेण न सिद्ध्यतीति वाक्यविषयः पदविषयो वा। ततः साक्षाल्लोकपक्षापत्त्याभ्युपगमविरोध इत्युक्तः। तथा तद्विषयः स्ववचनविरोधोऽपि प्रतिपत्तव्यः / कस्मात् ? लोकवदेव चार्थ इति व्यवस्थाप्य शब्दप्रयोगात् / लोकेन तुल्यं वर्तते / लोकस्येव लोक इव लोकवत् / एवेत्यवधारणे / किमवधारयति ? / लोकेऽर्थमवधारयति / नार्थलोक शास्त्रविदामपि लोकत्वात् / पृथक्त्वेऽप्यर्थलोकयोरुभयत्र वायमेवकारो द्रष्टव्यः। लोकवदेवार्थोऽर्थवदेव लोक इति द्वयोरपि परस्पराव्यभिचारात् / शास्त्रविदां लोकपृथक्त्वे लौकिकार्थपृथक्त्वे च तत्कल्पितार्थानामिति / इति-अनेन शब्दप्रकारेणेत्थं व्यवस्थाप्य बुद्ध्याभ्युपगम्य स्वनिश्चितार्थप्रतिपादनार्थं परेषां शब्दप्रयोगात्पदावधिको वाक्यावधिको वा शब्दप्रयोगव्यवहारो लोकानुपातीत्यनिष्टकैरपि शास्त्रकारैस्तत्र च तथा सत्यत्वसिद्धे शब्दार्थे तेन प्रकारेण तथा, येन प्रकारेण मृद्रूपादिपृथुकुक्ष्यादिकेऽर्थे घटशब्दो लोकेन प्रयुक्तस्तेनेव प्रकारेण सत्यत्वेन सिद्धे सत्यसिद्धे लोके शब्दं प्रयु 1 भवति / 2 माच्च / 3 नार्थे लोको। 4 शब्दः प्रक्रमे / अनेन /