________________ 48 नयचक्रम् / - [भेदाभेदयोजानैः शास्त्रविद्भिर्लोकोऽभ्युपगतोऽसाभिरित्युक्तमेव भवत्यर्थात् / ततः पुनर्न यथा लोकग्राहं वस्त्विति विरुध्येत / लोकस्य ग्राहो लोकग्राहः / ग्राह' इव ग्राहः। यो यो लोकग्राहो यथा लोकग्राहं / किं तद्वस्तु ? यथैवागोपालप्रसिद्ध वस्तु ब्रुवाणो वादी यो यः प्रयुज्यते मया शब्दः स स न तथार्थः स्यादित्यनेन स्ववचनेनैव विरुद्धमाह / खेन वचनेन तत्तद्वचनं विरुध्येत / विरुध्यतेत्याशङ्कावचने लिङ् / कथं मुखनिष्टुरं विरुध्यत एवेत्यवधार्योच्यते / कथञ्चिद्विरुध्येतेति दाक्षिण्यमाचार्यः स्वकं दर्शयति / एवं तावत्स्ववचनविरोधः / लोकविरोधस्तत एव रूढिविरोधो लोकविरोधः। स तु प्रस्तुत एव तदविरोधेऽप्रवृत्तेः। तेन लोकेनाविरोधे शास्त्राणामप्रवृत्तेः / तस्या रूढेः शब्दप्रयोगादेवाभ्युपगताया विरोधमनुपपाद्य शास्त्राणामविशेषविशेषोभयानेकत्वैकान्तप्रतिपादनार्थानामप्रवृत्तेः। कथमप्रवृत्तिः। तानि रूढमेवार्थमनुबूयुररूढतामुत्पादयेयुयेदि रूढवदिति व्यर्थानि / अथारूढं व्युत्पादयन्ति रूढिविरोधिनमर्थ विरुध्यत एव लोकेन निःसंशयमिति, साधूच्यते तदविरोधेप्रवृत्तेर्लोकविरुद्धः प्रस्तुत एवेति / किं चान्यत्-लोकप्रामाण्यमेव शास्त्रकाराणां सर्वत्र पदे पदे वाक्ये वाक्ये प्रत्यक्षानुमानविरोधावुपस्थितावेव / तत्र तावदंशे प्रत्यक्षविरोधः इत्यायभिहितं पूर्वमिदानीं सर्वत्र प्रत्यक्षविरोधो वाच्य इति विशेषः / अनुमानविरोधो वा नोक्तः सोऽभिधेयः, तदनुषङ्गेण पुनः प्रत्यक्षविरोधवचनं च तत्पूर्वकत्वादनुमानस्येति शास्त्रकारप्रवृत्तेलॊकविरुद्धत्वादेव प्रत्यक्षानुमानविरोधावप्युपस्थितावेव / एवेत्यवधारणे / न न भवतो भवत एवेत्यर्थः। किं कारणं ? तत्स्थत्वात्तयोः / लोकनादिलोकोऽनुपहतेन्द्रियमनस्कः प्राणिगणो लोक इत्युच्यते / तयोस्तसिंल्लोके स्थितत्वात्प्रत्यक्षानुमानयोः लोकं चेदप्रमाणं लोकस्य प्रत्यक्षानुमाने प्रागेवाप्रमाणे / अथवा एव स्थितस्तत्स्थः 'सुपि स्थ' इति वचनाल्लोक एव प्रामाण्येन व्यवस्थितः, क तयोः प्रत्यक्षानुमानयोः / स एव लोकः प्रत्यक्षानुमानज्ञानाधारत्वात्तद्रूपापत्तेश्च प्रत्यक्षमनुमानं च ततस्तदप्रामाण्ये तयोरप्रामाण्यमिति / स्यान्मतं भवतां / कथं प्रमाणज्येष्ठं प्रत्यक्षं न प्रमाणीक्रियेतेति / तत् वः सम्प्रचारमिमं प्रयच्छामि / तदपि च प्रत्यक्षमेवं कल्प्यं / शास्त्रवदेवेत्यादि / शास्त्र ज्ञानेऽपि तद्विहितक्रियासाध्यत्वात्तदिष्टफलस्य क्रियायाश्चाव्यभिचारात् ज्ञाने / यथोक्त 'जानानाः सर्वशास्त्राणि च्छिन्दन्तः सर्वसंशयान् / न च ते तत्करिष्यन्ति गच्छ स्वर्ग न ते भयम् // इति / तस्मात् ज्ञानफलस्याव्यभिचारि कारणं क्रियासाधनवादिनोऽपि / किमङ्ग पुनज्ञोनमात्रसाधकवादिन इति / तदेव विचार्यते / १°नुप।