________________ 49 दोषोद्भावनम् ] न्यायागमानुसारिण्यलकृतम् / शास्त्रवदेवेत्यारभ्य यावयञ्जनकार्यत इति / शास्त्रं इव शास्त्रवत् / यथा शास्त्रेऽभिहिताः पदार्था अत्यन्तविलक्षणास्तथा प्रत्यक्षमपि लौकिकप्रत्यक्षविलक्षणं तथानुमानं वास्तु, तयोरप्यलौकिकत्वकल्पनार्थ प्रत्यक्षानुमानयोरप्यलौकिकत्वस्य कल्पनार्थ लक्षणान्तरं कल्प्यं / किं तत् ? सामान्यविशेषैकान्तसंवादि / सामान्यं च विशेषश्च सामान्यविशेषौ / सामान्यविशेषौ च सामान्यविशेष इत्येकशेषः स्वरूपत्वात् / सामान्यमेव न विशेषः, विशेष एव न सामान्यं / तौ परस्परविलक्षणौ चेति त एवैकान्ताः लौकिकपदार्थविलक्षणाः शास्त्रेषु कल्पितास्तैः संवदितुं शीलमस्य तदिदं सामान्यविशेषकान्तसंवादि, घट आदिर्यस्याः कल्पनायाः सा घटादिकल्पना / घटसङ्ख्योत्क्षेपणसत्ता घटत्वायध्यारोपात्तस्याः / ततः कल्पनाया अपोढं प्रत्यक्षं कल्पनीयं / स्यादाशङ्काकल्पनापोडं प्रत्यक्षं विशेषकान्तवादिन एव मतं / नेतरयोस्तयोः कथमलोकिकत्वमिति चेत् / अत्रोच्यते-यत्तावद्विशेषमानं स्वलक्षणविषयमनिर्देश्य प्रत्यक्षं तत्कल्पनापोढत्वादलौकिकं तत्सामान्यानात्मकत्वात् खपुष्पवदसदिति सिद्धं / तथा विशेषानात्मकत्वात् खपुष्पवत्सामान्यमानं सर्व सर्वात्मकं कल्पनापोडं वस्तु तदसत् / असत्त्वात्तद् ज्ञानमपि तद्वत् / तथोभयानेकत्वैकान्ते तयोरितरेतरानात्मकत्वात् खपुष्पवदभाव इत्यलौकिकत्वं / यद्यपि सामान्यविशेषव्यपाश्रयं लक्षणमभिहितम् / श्रोत्रादिवृत्तिः प्रत्यक्षमात्मेन्द्रियमनोऽर्थसन्निकांद्यनिष्पद्यते तदन्यदित्यादि / तथापि सामान्यविशेषकान्तवादिनां बलातदेव कल्पनापोढमलौकिकं चेत्यापन्नं / तस्य चोभयात्मकत्वाभ्युपगमे प्रतिज्ञाहानिः, अथवा तेनैव दूषितत्वात्कस्तौ हतौ हनिष्यतीति तस्यैवोपरि बध्यते परिकर इत्यनेनाभिप्रायेण पूर्वमेव तावत्परिकल्पितप्रत्यक्षलक्षणमुपन्यस्यति दूषयितुकामः सूरिरित्यलमतिप्रसङ्गेन / प्रकृतमुच्यते-अथ का कल्पना ययापोटं ज्ञानं प्रत्यक्षमिति ? अत्रोच्यतेनामजातिगुणक्रियाद्रव्यस्वरूपापन्नवस्त्वन्तरनिरूपणानुसरणं विकल्पना,ततोऽपोढमपेतं नाम संज्ञाशब्द इत्यनान्तरम् , तद्वारिका कल्पना / सा द्विविधा समासतः। यादृच्छिकी नैमित्तिकी च / नामग्रहणाद् यादृच्छिकी / जात्यादिग्रहणाच्च नैमित्तिकी गृहीता / निमित्तनिरपेक्षं नाम यादृच्छिकं डित्थो डवित्थ इत्यादि शब्दद्वाराच्च / सत्यपि जात्यादिनिमित्तापेक्षा भिन्ना / तत्र गौरिति जात्या, शुक्ल इति गुणतः / मतुब्लोपादभेदोपचाराद्वा विशेषणस्वरूपायत्तं ततो विशेषणादन्यद्वस्तु तयोविशेषणविशेष्ययोरभेदसम्बन्धनात्मिकया कल्पनया पूर्व मनसा निरूप्यते / पश्चादनुस्मयते / तथा डित्थादिष्वप्यस्येदं सोऽयमिति वा भिन्नयोराभिधान न०च०७