________________ नयचक्रम् / [ कल्पनापोडं योरभेदसम्बन्धनया निरूपणानुसरणे शब्दार्थयोनिमित्तनैमित्तिकयोभिन्नयोरभेदाध्यारोपात् / क्रियाशब्देषु कारक इत्यादिषु नाभेदोपचारोऽभिन्नरूपत्वात् क्रियाक्रियावतोरतो न निरूपणं किन्त्वनुसरणमेव / सर्वत्र शब्दार्थाभेदोपचारानिरूपणानुसरणैस्त एव / तथा द्रव्यशब्देषु संयोगसमवायनिमित्ताद्दण्डी विषाणीत्यादिषु तस्याः कल्पनाया अपोढमक्षाधिपत्योत्पन्नमिति / रूपालोकमनस्कारचक्षुर्यः संप्रवर्तते / / विज्ञानं मणिसूर्याशुगोशकृश्य इवानलः // चक्षुः प्रतीत्य रूपं च आलोकं बाह्यं समनन्तरनिरुद्धमनःसंज्ञितं चित्तं चित्तान्तरावकाशदानात्मकं प्रतीत्य चक्षुर्विज्ञानमुत्पद्यते / 'चतुर्भिश्चित्तवेत्ता' इति सिद्धान्तात् / तथापि चाधिपतिना चक्षुषा व्यपदिश्यते चक्षुर्विज्ञानमित्यसाधारणकारणत्वाद् यथा यवाङ्कुर इति / बीजं तु वारिमारुताकाशसंयोगे सत्यपीति असाधारणार्थविषयमिति / चक्षुरादिविज्ञानानां परस्परविविक्तरूपादिनिर्विकल्पस्य लक्षणविषयत्वात् / अभिधानगोचरातीतं मनो निरूपितार्थविषयत्वादभिधानस्य / तगोचरातीतं किं कारणं ? प्रत्यात्मसंवेद्यत्वात् / आत्मानमात्मानं प्रति प्रत्यात्म, प्रत्यात्मना संवेद्यते नान्यस्मै शक्यमाख्यातुं / शूलादिवेदनास्वरूपवत् ज्ञानमिति कल्पनमन्यत्रासम्भवात्सम्बन्धः / प्रत्यक्षमक्षमक्षं प्रति वृत्तेः / पञ्चन्द्रियजं चक्षुर्विज्ञानसमंगी। नीलं विजानाति नो तु नीलमिति, अभिधर्माः गमोऽपीति विधेस्तमेतत् लौकिकप्रत्यक्षविलक्षणं कल्प्यमानं चाक्लपः। तवागमोऽप्येवमेवेति दर्शयति चक्षुर्विज्ञानसमंगी। चक्षुर्विज्ञानसमत्वं गीःसन्तानः 'अगि रगि लगि गत्यर्थाः' चक्षुर्विज्ञानसमंगितुं शीलमस्येति चक्षुर्विज्ञानसमंगी। एवं श्रोत्रादिविज्ञानसमंगिनः / नीलं विजानाति रसादिविविक्तं रूपं स्खलक्षणं विजानाति नो तुनीलमिति विजानाति / इतिशब्दस्य शब्दपर्यायत्वादिदं तन्नीलमिति शब्दनिर्देश्य न विजानाति, अपटुत्वादिन्द्रियविज्ञानस्य / कुतः शक्तिरेवं कल्पयितुं ? प्रकरणपदेऽप्युक्तमिति / भवत्संगतागमव्याख्यानग्रन्थान्तरेण तदर्थानुवादिनाभिहितमिति दर्शयति / नीलः स नाम निलं निस्तोकः पदे तन्नीलमेतदिति नाम्ना निर्देशो नीलमस्य नामैतनिरूपणविकल्पकृतं न नीलार्थः / नीलस्य रूपस्य वस्तुनः चक्षुरिन्द्रियविषयस्य परमार्थः / स्वरूपतोऽनक्षरः। अक्षरैर्व्यञ्जनपदनामकार्यैरनभिलपनीयः / स च पुरुषो निरूपणकाले खयं निश्चिन्वन्ननुसरणकाले वानुसरन् परं प्रतिपिपादयिषिता नीलमिति वाचं भाषमाणो नीलस्वार्थमनभिलाप्यखरूपं स्वज्ञानांशवदविकल्पं न पश्यति तदा वत्स्वरूपविषयस्थाविकल्पस्य नीलार्थविज्ञानस्य च विरुद्धत्वात्तदान्यस्य नीलशब्दाभिलाप्यस्या