________________ प्रत्यक्षज्ञानम् ] न्यायागमानुसारिण्यलङ्कृतम् / 51 ध्यारोपितस्य सामान्यस्येन्द्रियगोचरानागतेः / एतस्यैवार्थस्य भवनात् , तुशब्दो विशेषणार्थः / एनमेवार्थ भावनयानया विशेषयति / भवत्येवार्थस्तं भवन्तं भव भवेति बुद्धौ भावयति यया व्याख्यया सा भावना / का पुनः? सार्थेऽर्थसंज्ञी नत्वर्थे धर्मसंज्ञीति / एतस्य भावनावाक्यस्य पुनर्व्याख्या-अर्थे रूपादिके प्रत्यक्षविज्ञानविषये / रूपरसगन्धशब्दस्प्रष्टव्यलक्षणे स्वरूपसंज्ञी रूपादिमात्रसंज्ञी। संजानातीति संज्ञी / स्वरूपसंज्ञास्यास्तीति वा स्वरूपसंज्ञी / किमालम्बना सा संज्ञा किंस्वरूपा वा यथा संप्रयुक्तं तत्प्रत्यक्षम् ? / रूपादिवित्तं निर्विकल्पं चैत्तसिक्या संप्रयुक्तधर्माख्यया योगात्संज्ञया संज्ञीत्युच्यते / तत्सन्तान इत्यत आह / अर्थस्वरूपविशेषमात्रालम्बनया निर्विकल्पया संज्ञया संप्रयुक्तमिति / गतार्थं व्याख्यातत्वाद्भाष्येण / तदेव खलक्षणविषयं स्वमेव विशेष एव लक्षणं, लक्ष्यत इति लक्षणं / 'कृत्यल्युटो बहुलम्' () इति कर्मणि ल्युट्प्रत्ययः। स्वलक्षणमनन्यविषयमित्यर्थः / अस्य सन्तानस्येति चक्षुर्विज्ञानसमंगिनः / चक्षुर्विज्ञानवच्चक्षुरादिपञ्चविज्ञानकाया व्याख्याताः / इत्थं कल्पनापोढा इति प्रदर्शने यत्पुनरुक्तं कल्पनात्मकं ज्ञानं न तत्प्रत्यक्षमर्थस्वलक्षणविषयत्वात् , द्रव्यञ्च ज्ञानवदिति साधनं / इतश्च सविकल्पकं नीलमिदमित्यादिज्ञानं न प्रत्यक्षं विशेषणाध्यारोपात् / उत्पलाधारसुरभ्यादिज्ञानवदिति / इतिः परिसमाप्त्यर्थः। अर्थऽर्थसंज्ञीत्येतस्य व्याख्यानमिति परिसमाप्तं / न त्वर्थे धर्मसंज्ञीत्यस्य व्याख्या / न त्वर्थे, नेति प्रतिषेधे / तुर्विशेषणे / तमर्थमध्यारोपविशिष्टं प्रतिषेधति / तस्मिन्नेव रूपादिकेऽर्थे मनु-यदृच्छादिना स संज्ञी, यदृच्छाजातिगुणक्रियाद्रव्यशब्दसंज्ञी / धर्मशब्दस्य शब्दशब्दार्थपर्यायत्वात् धर्मसंज्ञी न भवति शब्दसंज्ञी न भवतीत्यर्थः / नैषा स्वमनीषिकोच्यते / किं तर्हि ? एवमभिधर्मेऽप्युक्तमभिधर्मपिटकेऽभिहितं / किमुक्तं ? "धर्मो नामोच्यते / नामकायः" इत्यादि / नामैव नामकायः / कायवत्प्रतिक्षणं शरारुत्वाच्चतुभूतीसङ्घातत्वाच्च, नाम्नां वा विज्ञानादीनां सङ्घातत्वात् / संज्ञाशब्दानां क्षणिकानामपि संहतानामेवोत्पत्तिविनाशाभ्युपगमात् / यथोक्तं "वर्णो गन्धो रसः स्पर्शश्चत्वारोऽपि च धातवः / अष्टावेते विनिर्भागा सहोत्पादाः सहक्षयाः॥” इति सिद्धान्तात् // पदानि नामाख्यातोपसर्गनिपातास्तत्कायः पदकायः / व्यञ्जनान्यक्षराण्यर्थस्य व्यञ्जकत्वात्तत्कायो व्यञ्जनकाय इति / एवं तावत् कल्पितमेव भवसिद्धान्ते / किं सम्प्रधारणया ? / अत्रेदानी परमार्थो विचार्यते-कल्पितमपि त्विदमफलम् इत्यादि / नास्य फलमित्यफलं / किं कारणम् ? अलौकिकत्वात् / खरविषाणकुंततीक्ष्णादिकल्पनवत् / कस्मादलौकिकत्वमिति चेत् , स्ववचनव्यपेक्षाक्षेपदुस्त