________________ नयचक्रम् / [कल्पनापोट रविरोधपरिहारं / यसात्वं वचनं ववचनं प्रत्यक्षलक्षणवादिनो दिन्नंभिक्षोः / खवचनस्य स्ववचनेन वा व्यपेक्षा प्रत्यवमर्शः। स्ववचनव्यपेक्षा सेवाक्षेपः / तेनाक्षेपेण दुस्तरो विरोधस्य परिहारोऽस्येति स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधपरिहारं / खेनैवैतद्वचनेन पौर्वापरेण प्रत्यवमृश्यमानेन विरुध्यते / सदाहं मौनव्रतिकोऽस्मि, पिता मे कुमारब्रह्मचारीत्यादिवचनवत् / न त्वस्मदुपपत्तिवद्रूष्यमिदं / तदर्थे दृष्टान्तमाह / त्वदुक्तिवदेवेदं / यथेयं त्वदुक्तिः कल्पनात्मिका सती न प्रत्यक्षं, तथैवेदमप्रत्यक्षमिति प्रतिज्ञा, कल्पनापोढलक्षणलक्षितं ज्ञानमत्र धर्मि / तदप्रत्यक्षत्वविशिष्टं साध्यते, को हेतुः? कल्पनात्मकत्वात् / न त्विदमसिद्धं कल्पनात्मकम् / तस्य ज्ञानस्य कल्पनापोढत्वात् / अत्रेदं तत्साधनार्थमभिधीयते धर्मान्तरं तत्कल्पनात्मकं निरूपणविकल्पात्मकत्वात् / इदमित्थमिति ज्ञानं निरूपर्ण, स एव विकल्पस्तदात्मकं तत्प्रत्यक्षं घटत्वादिज्ञानवदिति / आह-निरूपणविकल्पात्मकत्वमप्यसिद्धमिन्द्रियज्ञानस्येति, आचार्यस्तु तत्साधनार्थमाह / आलम्बनविपरीतप्रतिपत्त्यात्मकत्वात् / यथाप्रतिपत्तिरिति / स्यान्मतम् / द्रव्यसतामेवाणूनां नीलपीताद्याकारवान् संवृत्तिसत्त्वात् / तस्यापि नीलपीताद्याकारस्य प्रत्येकं तारतम्यवत्त्वात् यथाप्रतिपत्तिरिति / स्यान्मतं-द्रव्यसतामेवाणूनां नीलपीताद्याकारत्वान्न विपरीता प्रतिपत्तिरित्येतच्चायुक्तम् , आकारस्याध्यारोपात्मकत्वात् / माणवके सिंहत्वाध्यारोपवत् / सदाध्यारोपित इति कुतो गम्यते ? सामान्यरूपविषयत्वात् , तत्सामान्यं च कारीषतौषतार्णपार्णादिविशेषानाश्रिताग्नित्ववत्, तदप्यसिद्धमिति चेत, सिद्धमेव तदतद्विषयवृत्तित्वात् / संश्चासंश्च विषयस्तदतद्विषयौ तत्र वृत्तिरस्येति तदतद्विषयवृत्ति, तद्द्वानमनेकपरमाणुसमूहजत्वात्तस्य समूहे तेषु च वृत्तित्वात् / समूहस्यासत्त्वात्समूहिनामेव द्रव्यसतामणूनां सत्त्वात्तयोश्चाभेदेन नीलाद्याकारपरिग्रहेण ज्ञानोत्पत्तेः / समूहासत्त्वं च तद्हे तद्बुद्ध्यभावात् बलाकापतिमुष्टिग्रंथ्यादिवत् / उक्तं च 'गुणानां परमं रूपं न दृष्टिपथमृच्छति / यत्तु दृष्टिपथप्राप्तं तन्मायेव समुत्थकम् // ' इति / / अतः सदसदभेदपरिग्रहात्मकत्वात्तैमिरिकके शौक्ल्यकादिज्ञानवत्तदतद्विषयत्वमस्य / किं चान्यत् / सर्वथा साधारणार्थत्वात् / साधारणोऽर्थोऽस्य ज्ञानस्येति साधारणार्थ, तत्साधारणार्थत्वमभेदपरिग्रहात्मकत्वात् / आदिग्रहणादन्वयव्यतिरेकार्थविषयत्वात् / सामान्यविशेषात्मकार्थविषयत्वादित्यादिभ्यो हेतुभ्यो दृष्टान्तभ्योऽनुमानादिज्ञानानि तथैवोदाहृतानि / 'भ्रान्तिसंवृतिसंज्ञानमनुमानानुमानिकं / समभिलाषिकं चेति तदाभासं सतैमिरम् // इति / बिन्न। 2 केशोंडुकादि। 3 °स्मार्ताभि०० ग। प्रत्यक्षाभंग। ITHHTHHTERH