________________ प्रत्यक्षज्ञानम् ] न्यायागमानुसारिण्यलङ्कृतम् / तस्माद्धेतुपारंपर्येण कल्पनात्मकत्वसिद्धेरेकैकस्माद्वोक्तहेतोरप्रत्यक्षमिदं कल्पनापोढलक्षणलक्षितं ज्ञानमनुमानादिज्ञानवदिति / यथानुमानादि ज्ञानं कल्पनात्मकत्वादप्रत्यक्षं तथा भवतीष्ट(स्थ ?)मिन्द्रियज्ञानं मा मंस्थाः। प्रोक्तकल्पनात्मकत्वादिहेतुसिद्धिरिति / यस्मादुक्तं वोऽभिधर्म एव-अभिधर्मपिटक एव / बुद्धिवचनेऽभिहितं “सञ्चितालम्बनाः पञ्चविज्ञानकायाः" इति। नित्यसंप्रयुक्तकधर्मयुक्तत्वाद्रागादिभिः काया इत्युच्यन्ते / पञ्च चक्षुरादि विज्ञानानि / तानि हि रूपादिपरमाणोरेकस्यासंचितस्यान्यैः समानजातीयैरसंगतस्यालम्बनस्याविषयस्यन्द्रियबुद्धिग्राह्यत्वस्य घटादिषु घटपटरथादिषु, नीलादिषु रूपरसगन्धस्पर्शशब्देषु तद्वणेषु प्रत्यक्षाभिमतेषु संवृत्तिसत्स्वभावात् / सञ्चिताणुघटनीलाद्याकार एव गृह्यते चक्षुरादिभिः / तस्यां चावस्थायां परमाणुत्वेनावस्थानमाहतान् प्रत्यसिद्धं परमाण्वन्तरापत्त्यभ्युपगमात् / वैशेषिकाणां परमाण्वारब्धावयवि द्रव्यं, सांख्यानां समवस्थानविशेषापन्नाः सत्वादयो गुणाः, लौकिकानां तु स्थूलकार्यानुमिततजातीयसूक्ष्मकारणमात्रसंभावनं / “सन्ति केचित्सूक्ष्मा बहवः स्थूलस्य कारणभूताः पटस्येव तन्तवः" इति / संभावितानां तथा संभावनेऽपि तेषां सङ्घातपरिणामाभ्यामृते चाक्षुपत्वाद्यभावो लोकव्यात्याणुवदतोऽतीन्द्रियत्वाद्यालम्बनत्वानुपपत्तिरतश्वालम्बनत्वानुपपत्तेद्रव्यस्य सतां परमाणूनामेतत्प्रतिपत्तव्यं चक्षुरादिविज्ञानानां रूपादिपरमाणुसंबोधत एवालम्बनमिति / आदिग्रहणाद्रसादिपरिमण्डलादिपरमाणुसङ्घात एवालम्बनं / ततः किमिति चेत् / ततः प्रत्येकमालम्बनपरमाणूनाम् , आलंबनाथाः परमाणवः। आलम्बनपरमाणवस्तेषां परमार्थसतामेषां तत एव हि परमार्थसन्तो न समूहो नीलादिर्घटादिश्च संवृत्तिमत्त्वात् / भवसिद्धान्तेनैवाविषयता परमाणूनां / तत्र प्रतिविविक्तरूपान्तरा विविक्तस्य तत्त्वे प्रत्येकं विविक्तानि रूपान्तराणि इति / प्रतिपरमाणु रसादिभेदेन वा तेषामेव रूपान्तराणामविविक्तं खतत्त्वं यस्मात्सोऽयमविविक्तवतत्त्वः। कोऽसौ रूपसङ्घातः ? / रूपधातुभेदपरमाणुसङ्घातः। अधिकृतचक्षुर्विषयाभिमतरूपसङ्घातो वा, तस्मिन् रूपसङ्घाते इन्द्रियसन्निकृष्टे स्वविषयाभिमुख्येनोपस्थिते आलम्बनविपरीता परमार्थत आलम्बनभूतेभ्यः परमाणुभ्यो नीलमिति वा, घट इति वा येयं प्रतिपत्तिः सा विपरीता / तदग्रहे तद्बुद्ध्यभावादलाकासु पतिज्ञानवत् / अद्य(स्य?)पदस्थैकात्मकनीलरूपविपया व्यपदेश्यानेकपरमाण्वालम्बनेभ्योऽन्यव्यपदेश्य एक आत्मा / अस्येत्यव्यपदेश्यैकात्मकं / किं तन्नीलरूपं ? तद्विषयोऽस्या इत्यव्यपदेश्यैकात्मकनीलरूपविषयाभिमता प्रतिपत्तिरिति वर्तते / सैव वा प्रतिपत्तिरव्यपदेश्या एकात्मकानेकपरमाणुनीलरूपविपरीतैकनीलरूपविषया तव्याख्यानार्थमभिधर्मपिटके भवतां