________________ 54 नयचक्रम् / [ कल्पनापोढंयथोच्यते-'नीलं विजानाति नानुनीलम्' इति / नाव्यपदेश्या सा प्रतिपत्तिरित्यभिप्रायः / तं प्रदर्शयति-ननु हेत्वपदेशव्यपदेश्यैव सा / यसादुक्तं-हेतुरपदेशो निमित्तं लिङ्गं प्रमाणं कारणमित्यनर्थान्तरमिति / न चावश्यं शब्दाभिधेयमेव व्यपदेश्यम् / किं तर्हि ? यद्यदर्थान्तरेणाधिगम्यते तत्तव्यपदेश्यम् , अर्थान्तरस्य हेत्वपदेशनिमित्तादिपर्यायत्वात् / तथापि च यतः सञ्चयग्रहणापदेशेन निमित्तान्तरजनितमिन्द्रियज्ञानमिष्टं तस्माद्यपदेश्यं तत्र / तथा चोक्तम्-'सश्चितालम्बनाः पञ्चविज्ञानकाया' इति / न सञ्चयालम्बना इति / एतस्यार्थनिदर्शनार्थमुदाहरणमाह-धूमेनेवाग्निरिव गृह्यते / यथा धूमेनार्थान्तरभूतेनाग्निरत्रेति ज्ञानमुत्पद्यमानं व्यपदेश्यं दृष्टं तथैतदपि नीलरूपादिविषयं चक्षुरादिविज्ञानं परमाणुभिरर्थान्तरैर्जनितत्वाद्यपदेश्यं / ततोऽन्यदित्यादि तत एव यथा व्यपदेश्यं तथा धूमादग्निरिव तन्नीलरूपं / ततः परमाणुभ्यः परमार्थसयोऽन्यकल्पितमकल्पितेभ्य एवं बहुभ्यः सामान्य विशेषेभ्यः। न साक्षादिन्द्रियैरव्यवहितं गृह्यते। किंतर्हि ? व्यवहितमेवार्थान्तरैः परमाणुभिस्तद्वारेण परमाणुद्वारेण गृह्यते / न स्वत एवेत्यत्राह ननु च संचयस्येत्यादि / यावदर्थान्तरस्यैकरूपत्वस्येति / नन्वित्यनुज्ञापने / चशब्दः प्रसिद्धभेदसमुच्चये। नन्विदं प्रसिद्धमन्यः कारको हेतुरन्यो ज्ञापक इति / तसादणूनां तत्संचयस्य नीलस्य च कारकसम्बद्धा धूमस्यागेश्च ज्ञापकसम्बन्धात्प्रत्यक्षानुमानप्रतिपत्त्योऽर्थ एष गम्यः, अतः साध्यधर्मविकल्पं दृष्टान्तस्येष्टविघाताद्विरुद्धता हेतोरिति वाक्यार्थः / अक्षराण्युत्तानार्थान्येवेति न विवृण्महे / _ अत्राचार्यो दोषद्वयं परिहरनाह-नन्विदमस्यैवार्थस्य प्रदर्शनार्थ प्रस्तुतमस्माभिः। नैतदनिष्टमसाकं / न वा साध्यधर्मवैकल्यम् / यत्सश्चयस्य ज्ञापकत्वप्रसङ्गात् प्रत्यक्षप्रतिपत्तेस्तद्दोषद्वयमसात् प्रत्यपायेव / न पुनरेवमेतदस्यैव प्रतिपिपादयिपितत्वात् / तदुच्यते-यदि भवन्मतमिदं प्रत्यक्षं स्यादकारकादेव निष्पादकादेव चक्षुरादिविज्ञानस नीलपीतादेः स्वार्थाभिमतादालम्बनभूताद्धेतोर्जायेत / संचयाख्यात्संवृति सतो न परमार्थासतोऽण्वादेरपि साद्भवति / तु तस्मान्न प्रत्यक्षम् / ज्ञापकधूमाद्यपेक्षामिज्ञानवत् / वैधय॒ण दाहानुभवनवत् / खार्थमात्रालम्बनं वा स्थात् प्रत्यक्षत्वाद्दाहानुभवनवत् / यथोक्तम् "अन्यथा दाहसम्बन्धाद्दाहं दग्धोऽभिमन्यते / अन्यथा दाहशब्देन दाहर्थिः संप्रतीयते // शास्त्रवार्तासमुच्चये. श्लो० 667 अव्यवहितप्रतिपत्त्यात्मकत्वात्प्रत्यक्षस्येति / तस्यैवोपचयहेतुः / अर्थान्तरेणाव्यपेतस्यार्थस्य ग्राहकं प्रत्यक्षं दृष्टम् / यथा दाहानुभवः / तथा तस्य स्खलक्षण१ तथा / 2 अन्यथैवाग्निसम्बन्धा (वाक्य०प०वि०का०श्लो०४२५)।३ देहं / 4 देहार्थः /