________________ व्याख्यानम् ] न्यायागमानुसारिण्यलङ्कृतम् / विषयत्वात्प्रत्यक्षस्यार्थान्तरनिरपेक्षता स्यात् , न पुनरस्तीति स्खलक्षणविषयत्वादनध्यारोपत्वादिति यावत् / सर्वत्रार्थान्तराध्यारोपवृत्त्यर्थान्तरादुपचयोत्पन्नं न जानामीति, यावदुक्तं भवति स्खलक्षणविषयत्वादव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षत्वादित्यादि / अर्थान्तरनिमित्तग्राह्यं वा प्रत्यक्षं दृष्टम् / यथा दाहशब्दजनि इदानीं कारकतामपि दूषयितुकाम आह-कारकतापि च संचयस्य नैवास्ति / तस्येति प्रतिज्ञा / परमार्थतोऽसत्वादिति हेतुः / अलातचक्रवदिति दृष्टान्तः / परमार्थतोऽसत्त्वं संवृति सत्त्वाद्भवन्मते न घटवत् / यथोक्तम् __ 'यसिन भिन्ने न तद्भुद्धिरन्यापोहधिया च यत् / घटाम्बुवृत्संवृति सत्परमार्थसदन्यथा // इति / यथोल्मुकं भ्रमद्धान्तदृष्टेश्चक्रवदाभाति / न तच्चक्रमस्ति, अग्निकणानां नैरंतर्याभावाच्चक्रस्य परमार्थतोऽसत्त्वाचक्रविज्ञानस्याकारकता / एवं संचयस्य संवृत्तिसत्त्वानीलविज्ञानस्याकारकता, तथातीन्द्रियत्वादणुनीलानाम् / इतश्च संचयस्याकारकता प्रत्यवयवस्थानमात्रत्वात् / अवयवमवयवं प्रति प्रत्यवयवम् , अवयवा नीलादिपरमाणवः / तेषामेव संहतैकत्र परस्परासत्त्या / व्यवस्थानमात्रं संचयो न तेभ्योऽर्थान्तरमिष्टं भवताम् , अतः परमार्थतो नास्त्येवासौ संचयः / तमेकं चित्तस्यासतः खरविषाणस्यैव सा कारकता। ___ अभ्युपेत्यापि संचयस्य सत्वं दोषं ब्रूमः / लोकवत्तु संचयसत्त्वे / यथा लोकस्याव्युत्पन्नस्यापि समुदायिव्यतिरेकेण सन्नेवावयवी परिमाणान्तरवत् / तत्समुदायो वा योऽस्तु सोऽप्यस्तु परैर्युत्पादितः सन्नेवासौ तन्तुपटादिषु बुद्धिशक्तिकार्याभिधानसंख्यादिभेददर्शनादिष्टसूत्राक्षरार्थानुसारेण व्यपदेशोऽस्स्येवेति गृह्यताम् / ततश्चाव्यपदेश्यो विषयः / प्रत्यक्षस्य प्रत्यक्षं वा व्यपदेश्यमित्युभयमनृतम् / तत् कथमिति चेत् / विशिष्टोऽपदेशो व्यपदेश इति विशब्दस्य विशिष्टार्थतामपदेशशब्दस्य हेत्वर्थता दर्शयति / विशिष्टोऽन्य इत्यर्थः / कुतोऽन्यः? इति चेदुच्यते-ग्राह्यादन्यः। ग्राह्यो नीलादिः, तस्मादन्यः सञ्चयस्तयपदेशः। तेन संचयेन व्यपदेशेन हेतुना व्यपदेश्यं / किं तत् ? अमेयं नीलादि त्वदभिमतप्रत्यक्षप्रमाणगम्यं किं भवति / तन्नीलादिरूपमनुमेयं प्रामोति / व्यपदेशव्यपदेशत्वान्न प्रत्यक्षम् / तस्य ज्ञेयस्यामादेव हेतोः प्रत्यक्षत्वाभावोऽनुमेयभावश्च साध्यते / तत्वज्ञानस्य प्रत्यक्षतानुमानस्य च साध्यते। को दृष्टान्तो ? धूमानुमिताग्निवत् / यथा धूमेन व्यपदेशेन साधितोऽग्निरनुमेयोऽप्रत्यक्षश्च तथा नीलं रूपं / यथा च धूमालम्बनोत्पादिताग्निज्ञानमनुमानमप्रत्यक्षं च तथा नीलज्ञानं १ज्ञानमिति / 2 ययोस्तु / 3 °वृत्ते / 4 व्यपदेश इति विशब्दस्येषेति / 5 हेत्वर्थतान्तरं /