________________ नयचक्रम् / [ कारकतायासंयोगोत्पादितमिति / किं चान्यत् / सर्वथा तन्नीलादिविज्ञानं तेन संचयेन व्यपदेश्य, तदविनाभावात्तस्य / कारकतायामकारकतया वा न कश्चिद्विशेषो व्यपदेश्यत्वसिद्धौ वस्तुनः / कुतोऽर्थान्तरनिमित्तादेव पितृधूमादिवत् / यथा पिता पुत्रस्य जनकस्तेन व्यपदिश्यते कारकेण पुत्रः। धूमेन ज्ञापकेनाग्निरविशिष्टत्वाद्वस्तुनः। ततस्तुल्यो व्यपदेश्यत्वहेतावप्रत्यक्षत्वानुमानसाधनसमर्थे सत्यव्यपदेश्यनिरोधकोऽयमनर्थको विचारः / कारको ज्ञापक इति / कारकत्वमभ्युपेत्याप्येष दोषोऽभिहितः / एवं तावदर्थकृतोऽस्य नीलस्य व्यपदेशः सिद्धो, यत्सिद्धेरप्रत्यक्षानुमेयत्वे सिद्धे, तत्सिद्धेश्च तदज्ञानसानुमानत्वं सिद्धयेत् / अव्यपदेश्यत्वादिलक्षणविरोधश्च / एवं तावदर्थतो व्यपदेश्यमेव यदपीष्टमभिधानतो न व्यपदेश्यम् / तन्नीलादिपरमाणुरूपं परमाणुसमूहाभेदादेकं वेत्येते द्वे अभिधानाव्यपदेश्यानेकात्मकत्वे अपि च नैव स्तः नीलरूपस्येति प्रतिज्ञा / दृष्टान्तोऽनुमिताग्निवदिति / प्रतिपत्तिसौकयात् प्रागेव हेतोदृष्टान्त उक्तः / तदलावयवसिद्धेहेतुसमर्थनार्थत्वात् दृष्टान्तस्य / हेतुस्तर्हि क ? इत्यत्रोच्यते-बहुविषयत्वात् / यथा धूमज्ञानानुमितोऽग्निरपादिविनिवृत्त्युपलक्षितो देशकालादिभेदभिन्नोऽप्यभिधानव्यपदेश्योऽनेकात्मकत्वापन्न एव गृह्यते / तथा नीलार्थोऽपि सादहुपरमाणुविषयत्वात् / तथा ज्ञानमपीति / ___ इदानीं प्रागभिहितकल्पनात्मकत्वादिभिर्हेतुभिरनुमानात्पापीयस्त्वं तस्य प्रत्यक्षस्य प्रतिपादयितुकाम आह / तद्धि नीलरूपनिरूपणमित्यादि / तदिति प्रागुपदिष्टं विकल्पात्मकत्वं, हिशब्दो यस्सादर्थे / यस्मान्नीलरूपस्य निरूपणमुक्तन्यायेनार्थव्यपदेशेन शब्दव्यपदेशेन वा दृष्टं / स च विकल्प एवं ह्यविकल्पकत्वं नास्त्यतः कल्पनापोढमिति दृष्टं लक्षणं ज्ञानार्थयोरध्यारोपाच निरूपणं तस्य / तत्कथमिति चेदुच्यतेप्रतिपरमाणु परमाणुं परमाणु प्रति प्रतिपरमाणु परस्परतः प्रतिभिन्नानि स्वानि तत्त्वानि / यो यस्य भावः स तस्य तत्त्वम् / न सोऽन्यत्र भवति / भवनमेव हि तत्त्वमतो विभिन्नानि प्रतिपरमाणु तत्वानि / एकैकस्य परमाणोः परमाण्वन्तरेभ्योऽत्यन्तभिन्न खं तत्त्वं भावान्तरमनपेक्ष्य स्वरसो नैव भवनाद्भावनामेकत्र च साधारणभवनत्वात्परमाणूनां स्वानि तत्त्वानि भिन्नानि / तथा तेषां परमाणूनां नीलादिरूपाण्यप्यनेकरूपाण्येव / तेषां च स्वतत्त्वानां तेषां च नीलादिस्वरूपाणामनेकरूपाणामेकद्वित्रिगुणादिभिन्नानि / यथासंख्यमेकतत्वैकरूपाध्यारोपात्सर्वपरमाणुतत्त्वानामेकस्वतत्त्वाध्यारोपात् / सर्वपरमाणुरूपाणामेकनीलरूपाध्यारोपादान्तरनिरूपणं, स चाप्यध्यारोपो रूपान्तरसामान्यरूपविषयत्वात् / रूपादन्यद्रूपं रूपान्तरं परमाणुरूपात्परमाण्वन्तररूपं रूपान्तरमेवं सर्वाणि परमाण्वन्तररूपाणि तेषां रूपं नीलमित्यभेदेन यत् सामान्यबुद्ध्या गृह्यते / सोऽध्यारोपस्तद्विषयस्तदपि सामान्य विरोधी कोऽयं / 2 वेत्य।