________________ 57 सञ्चयेऽपि दोषः] न्यायागमानुसारिण्यलङ्कृतम् / तदतद्विषयवृत्तत्वात्सामान्यमित्युच्यते / स चान्यश्चार्थो विषयोऽस्येति कृत्वा, ततश्थात्र प्रत्यक्षेऽन्यस्यानपोहः, अनुमाने त्वनग्नेरन्यस्यापोहस्तसादतदनपोहात् प्रत्यक्षमविविक्तविषयं स्वविषयाभिमतेऽन्यत्र चापरित्यागेनाभेदेन च वृत्तेर्नानुमानं / स्वविषये सामान्यमात्र एव वृत्तेरतोऽनुमानात्तत्परपरिकल्पितं प्रत्यक्षं पापीयः / संकीर्णतरविषयत्वादिति तस्मान्नाग्न्यनुमानवदेतत् / अन्यनुमानतुल्यमपि तन्न भवत्यपोह्यार्थापोहशक्तिशून्यत्वात्तस्मात्सामान्यात्मकतैवाम्यनुमानस्य न प्रत्यक्षस्येति तस्य नीलादेरर्थस्य प्रत्यक्षविषयस्य ज्ञानस्य च तदवस्थासंकीर्णरूपता / किं चान्यत् / तदतद्विषयवृत्ततापि न नीलरूपादेस्तद्ज्ञानस्य वोपपद्यते / किं कारणं ? सदसतोः सम्बन्धाभावात् / घटखपुष्पवत् तत उपचरितमत्र तदतद्विषयवृत्तत्वमपीति तत्प्रदर्शनार्थमाह-प्रज्ञप्तिपरमार्थस्थितसंचयपरमाणुपरिग्रहभेदात्सदसत्परिग्रहाभेदात्मकत्वात् / प्रज्ञप्तिः सन् संचयः परमार्थसन्तस्तु तथा स्थिताः परमाणवः। तेषां परिग्रहः सदसदभेदात्मकस्तसात्सदसत्परिग्रहाभेदात्मकत्वात्तदतद्विपयवृत्तता / सा च सर्वथा साधारणार्थता / सर्वेष्वेतेषु अनन्तरोक्तेषु हेतुषु ततो मूलहेतुः कल्पनात्मकत्वादित्येवेतैः साधितः, तस्मान्न तत् प्रत्यक्षं न चानुमानवदसंकीर्णस्वविषयमित्येतदर्थभावनार्थाः पुनस्त एव हेतवो व्यापारिताः / प्रत्येकमपि पूर्ववदेतस्मिन्नर्थे योज्याः। इतश्च-तद्ज्ञानमप्रत्यक्षमप्रत्ययप्रत्ययात्मकत्वाच्छब्दाश्रवणत्वप्रत्ययवदिति।प्रत्ययः-कारणं हेतुरित्यर्थः। न प्रत्ययोऽस्येत्यप्रत्ययः। कोऽसौ प्रत्ययः? प्रत्ययो-विज्ञानं / द्वितीयस्य प्रत्ययशब्दस्य विज्ञानार्थत्वात् / अकारणज्ञानत्वादित्युक्तं भवति / कथं पुनः कारणं तद्ज्ञानं संवृत्यतीन्द्रियत्वाभ्यां / यस्मानाणुषु न संचये प्रत्ययता तथा प्रतिपत्तिं प्रति द्रव्यसतामविषयत्वात्तस्य / द्रव्यसन्तो हि परमाणवोऽतीन्द्रियत्वादेव न प्रत्यक्षज्ञानहेतवस्तथा नीलत्वादयः संवृत्तिसन्तस्तत्संचयोऽसत्त्वादेवाकारणम् / तस्मादुभयथाप्यप्रत्ययः / स प्रत्ययो नीलरूपमिति / को दृष्टान्तः ? / यथाऽश्रावणः शब्द इति प्रत्ययोऽप्रत्यक्षं च तथेदमपीति / स्यान्मतं-कल्पनात्मकत्वादिभ्यो हेतुभ्योऽनुमानज्ञानं तर्हि चक्षुरादि विज्ञानं भविष्यतीति / अत्रोच्यते-अनुमानज्ञानमपि च तत्र प्रतिपूर्यते / कर्मकर्तर्यात्मनेपदं / यत् क्व तत्प्रतिषेधान्न प्रतिपूर्यन्त इति रूपम् / यथायमोदनो विपन्नत्वात्प्रतिमांसवदात्मानं न भोजयति न भुज्यते खयमेव तथेदमपि ज्ञानमात्मानमपि न प्रतिपूरयति न प्रतिपूर्यते / कस्माद्धेतोः / सम्बद्धगृहीतस्यान्यथाप्रतिपत्तेः / सम्बद्ध एव गृहीतस्तस्य सम्बद्धगृहीतस्यान्यथाप्रतिपत्तेस्तस्य ज्ञानस्यान्यथाप्रतिपद्यमानसम्बद्धगृहीतार्थत्वादित्यर्थः / यद् ज्ञानं 1 तत्र क। 2 तदसतः क / 3 सर्वथै क / ग / न. च. 8