________________ नयचक्रम्। [ कारकतायांसम्बद्धमेवार्थ गृह्णत्तमेवार्थमन्यथा प्रतिपद्यते तद् ज्ञानं नानुमानमपि सम्पूर्ण भवति / तद् यथा विरुद्धादि ज्ञानं / यथा कृतकत्वानित्यः शब्द इति पक्षधर्मज्ञानं शब्दसम्बन्धे घटादिष्वपि नित्यानुगमसम्बद्धं गृहीत्वानित्यशब्दप्रतिपद्यमानं विरुद्धहेत्वाभासज्ञानं भवति / आदिग्रहणात्प्रमेयश्रावणत्वद्वारं नित्यज्ञानं वा शब्दविषयमनैकान्तिकाभासं यथा तथेदमपि न सम्पूर्णमनुमानज्ञानमपीति / अथवा तिष्ठतु तावदित्यादि यावत्प्रत्यक्षविषयत्वाभ्युपगमविरोध इति स्थितम् / तावद् वस्तु विदूरस्थेनागमेनाभ्युपगतेन प्रत्यक्षविषयत्वस्य विरोध इत्येतत्-इदमेवामिन् प्रकरणे यदुदाहृतम् तचक्षुर्विज्ञानसमंगीत्यादि तदेव न घटत इति वाक्यार्थः / प्रत्यक्षस्य विधिः प्रत्यक्षस्य जन्म तस्य विधानं व्याख्यानं 'संचितालम्बनाः पञ्च विज्ञानकायाः' इति / स एवाभ्युपगमः प्रत्यक्षविधिविधानाभ्युपगमः स्खलक्षणमात्रविषयप्रत्यक्षत्वमेव स्खलक्षणमानं विषयो यस्य तत् स्वलक्षणमात्रविषयं किं तत्प्रत्यक्षं तस्य भावः स्खलक्षणमात्रविषयप्रत्यक्षत्वं तस्य प्रत्यक्षविधिविधानाभ्युपगमेन विरोधः समनन्तरग्रन्थोपपादितः से स्थित एव / चक्षुर्विज्ञानमित्येतदेव तु घटते / तुशब्दो विशेषणे / किं विशिनष्टि ? पूर्वमाल्लक्षणवाक्यादागमस्यास्याशुद्धतरतां विशिनष्टि / चक्षुषः चक्षुषि चक्षुषा वा विशिष्टं ज्ञान-विज्ञानमसाधारणविषयं तत्समंगति-समन्वेतीति चक्षुर्विज्ञानसमंगी। कः ? सन्तानः। विज्ञानस्य तदर्थंकगमनात् / तद्वारेण तत्सन्तानोऽपि समंगीत्युच्यते / तत्समंगिनो नीलविज्ञानं / तदेव प्रत्यक्षं कल्पनापोढमनिर्देश्यं स्वलक्षणविषयमित्यादिवचनं तेन लक्षितसोदाहरणमिदम् / तदिति प्रत्यक्षीकरणं प्रदर्शनं / यथा 'वृद्धिरादैन्' (सि. कौ. ) इत्युपलक्षिता एव नयन इत्युदाहरणं / कथं पुनस्तन्न घटते ? तत आह / एवं ते सञ्चयस्वेत्यादि यावत्संचितालम्बनकल्पनावैयादिति / एवं ते उदाहरणत्वेष्टौ सत्यां संचयस्य रूपमात्रत्वात् , किं भवति ? / संचितालम्बनकल्पनावैयर्थ्य स्यादित्यभिसंभत्स्यते / रूपमात्रत्वं संचयस्य कुत इति / तद्ग्रहणे तत्प्रत्यक्षत्वात् / यद्ग्रहे यस्य प्रत्यक्षत्वं तत्तावन्मात्रमेव दृष्टं / यथा दाहग्रहे दाहप्रत्यक्षत्वे दाहमात्रमेव, नातोऽन्योऽर्थ इष्टः / एवं संचयग्रहे नीलरूपमात्रमेव / अतः किम् ? / संचितालम्बनकल्पनावैयर्थ्य संचयाभावात् , संचयाभावो रूपमात्रत्वात् , संचितालम्बनकल्पनावेयाचोदाहरणमेव तु न घटते / चक्षुर्विज्ञानसमंगीत्यादि / अतन्मात्रत्वे संवृत्तिसवादित्यादि यावदुभयथापि रूपादिग्राहित्वाद् घटादिवत् / अथ मा भूदेष दोष इति न रूपमात्रं सञ्चयः। स एव च गृह्यत इतीष्यते / ततः संचयस्य संवृतिसत्त्वादरूपत्वं खरविषाणवत् , संवृतिसत्त्वं च प्रागुपपादितं अरूपत्वाच न चक्षुग्राह्यः स्यात्संचयो 1 समन्ततः ख। 2 असौ ग। 3 लापन क / लायन ख। 4 तत्र क।