________________ 59 सञ्चयेऽपि दोषः] न्यायागमानुसारिण्यलङ्कृतम् / रूपादन्यत्वात् शब्दवत् खपुष्पवद्वा / ततः को दोष इति चेदुच्यते / चक्षु व चक्षुः स्यात् / रूपस्याग्राहकत्वात् घटवत् जिह्वावत् त्वग्वदित्यादि / कथं रूपस्याग्राहकं चक्षुरिति दृष्टप्रसिद्धिविरुद्धमुच्यत इाते चेत् / तवैव दृष्टप्रसिद्धिविरोधावापाद्यते मया। किं कारणम् ? उभयथारूपाग्राहित्वात्तस्य / तस्य यदि संचयस्तथाप्यासन्नरूप एवेत्युक्तत्वादचक्षुर्विषयो रूपं ततो रूपस्याग्राहकत्वाच्चक्षुरचक्षुः श्रोत्रवत् / अथासंचितमेव परमाणु नीलरूपमिष्टं तथाप्यतीन्द्रियत्वादचक्षुविषयो रूपमतो रूपस्याग्राहकत्वाच्च चक्षुने च चक्षुः स्यादुक्तवदिति / सूक्तमुभयथापि रूपस्याग्राहकं चक्षुः, संचितमेव परमाणुनीलरूपमिष्टं / तथाप्यतीन्द्रियत्वादचक्षुर्विषयो रूपमतो रूपस्याग्राहकत्वाचक्षुने च चक्षुः स्याद्रक्तवदिति / सूक्तमुभयथापि रूपस्याग्राहकं चक्षुरिति / एवं तावचक्षुर्विज्ञानसमंगीत्यत्र चक्षुषोऽचक्षुष्ट्वाच्चक्षुर्ग्रहणमनर्थकम् / विज्ञानग्रहणमप्यत एवानर्थकमित्यत आह-विज्ञानमपि न विज्ञानं स्यादित्यादि यावत् खपुष्पवदिति। विशेपेण ज्ञानं विज्ञानं तद्भवदभिमतं प्रत्यक्षमुख्यं विज्ञानं न स्यादितरथा कथमाचार्यश्रीमल्लवादी विज्ञानं न स्यादिति स्ववचनविरोधं मायेयदिनाविव ब्रूयात् , किं कारणं पुनर्विज्ञानं तन्न स्यात् / अन्यथार्थप्रतिपत्तेः। अरूपस्य संचयस्य रूपत्वेन प्रतिपत्तेः, संचयत्वेन वा रूपमात्रस्य प्रतिपत्तेः, संचयत्वेन रूपमात्रस्य प्रतिपत्तेः को दृष्टान्तः ? अलातचक्रज्ञानवत् / यथोल्मुकाग्निकणमात्रमर्थं चक्रमिति प्रतिपद्यमानं न विज्ञानमेवं तदपि, आदिग्रहणात् स्थाणुपुरुषज्ञानमित्यादि / एवं तावच्चक्षुरिति विज्ञानमिति च द्वयं दूषितं / चक्षुर्विज्ञानसमंगीत्यत्र समंगित्वमपि दूषयितुकाम आहन च चक्षुर्विज्ञानं समंगतीति तद्वारेण पुरुषाख्यसन्तानैकगमनं समंगतं, ततस्तन्निषेधः / कमान समंगति चक्षुर्विज्ञानस्य रूपाद्यन्यत्रासंभवात् / न वा तत्सन्तानोऽन्यत्र संभवति / उक्तं हि-सति संभवे व्यभिचारे च विशेषणविशेष्यभाव इति / संचयापेक्षो व्यभिचारोऽस्त्यतो विशेष्यत इति चेत् तत्र यमान संचयो रूपम् , अरूपत्वात् चक्षुर्विज्ञानसंगत्यभावः / स्थान्मतम् / नीलरूपाव्यभिचारादेव तदेकगमनात्समंगीत्युच्यते चक्षुर्विज्ञानमित्येतच्चायुक्तं / तस्याप्यतीन्द्रियत्वाच्चक्षुर्विज्ञानाविषयत्वादरूपत्वम् / अभ्युपेत्यापि त्वन्मतेन / यदपि च तद्रूपं रूप्यत इति रूपम् / चक्षुर्विज्ञानेन किल रूप्यत इति, तद्विषयं स विषयो यस्य तत्तद्विषयं किंतदेकगमनं / कस्य ? चक्षुर्विज्ञानस्य, तदपि नास्ति / कस्मात् ? अविषयत्वात् / अविषयत्वमतीन्द्रियत्वात्प्रस्तुतप्रत्यक्षस्य / अन्येन्द्रियविषयवत् / यथा शब्दोऽन्येन्द्रियविषयश्चक्षुर्विज्ञानेन न समंग्यते / तथा तदपि रूपमिति / स्यान्मतं-संचयश्चक्षुविज्ञानसंगतियोग्यः स्यादित्यत्र क्रमः / संचयविषयमपि चक्षुर्विज्ञानस्य समंगनं प्रत्युत का