________________ 60 ... नयचक्रम्। ....... [कारकतायांनास्तीति वर्तते / कमात् ? असत्वं संवृतिसत्त्वात् , खपुष्पवदिति / सद्गमनाभावसाध र्येण दृष्टान्तः / एवं तावद्रूपं चक्षुर्विज्ञानं समंगीत्येतानि दूषितानि / इदानीं नीलं विजानातीति च दृष्यम् / तत्र नीलं पदार्थतो दूषितमेव, विजानातीति च दूषितमेव, पदार्थतः रूपचक्षुर्विज्ञानानां संगतेश्च दूषितत्वात् / मा भूदक्षरस्थानं दूषणशून्य, मिति कृत्वा वाक्यार्थतोऽपि दृष्यते-नीलविज्ञानसम्बन्धी न भवति तत्सन्तानः। तदाकारज्ञानोत्पत्तिहेत्वभावात्। स आकारोऽस्येति तदाकारं ज्ञानं नीलाकारं तस्योत्पत्तिः तदाकारज्ञानोत्पत्तिः / तस्या हेतुः संचयो नीलरूपं वा स्यात् / उभयमपि तन्न भवत्युक्तविधिनैवासंस्तदाकारज्ञानोत्पत्तिहेत्वभावात् / को दृष्टान्तः ? अदग्धस्य दाहज्ञानवत् / यथाऽदग्धस्य दाहानुभवज्ञानं तदाकारज्ञानोत्पत्तिहेत्वभावान्नास्ति / तथा नीलविज्ञानसम्बन्धी न भवति तत्सन्तान इति / एवं नीलरूपतत्संचययोरन्यतरविषयत्वेष्टौ दोषा उक्ताः / इदानीं प्रत्येकं त एव समुदिता इत्युभयैकविषयत्वे दोषं वक्तुकामः पक्षान्तरं ग्राहयति / नीलं च संचयं च प्रत्येकसमुदितकारणत्वाद्विज्ञास्यतीति चेत् / स्थान्मतं-त एव हि नीलपरमाणवः प्रत्येकं शिबिकोद्वाहन्यायेन समुदिताश्च कारणं न चैकैकः / न च समुदायः। तद्व्यतिरिक्तोऽस्तीति पुरुषकारणत्वं ज्ञानस्य तस्मात् ज्ञानोत्पत्तिहेत्वभावासिद्धिरित्येतन्न युगपत् ज्ञानासंभवात् / द्वयोरर्थयोयुगपदेव ज्ञानाभावादेकैकस्मिंश्चार्थे युगपत् ज्ञानयोरभावाद्भवतः / यथोक्तं- 'विजानाति न विज्ञानमेकमर्थद्वयं यथा / . एकमर्थ विजानाति न विज्ञानद्वयं तथा // इति / स्यान्मतं-हस्तेनानेकबदरामलकाद्यर्थग्रहणवत् स्यादित्येतच्चायुक्तं / ज्ञानस्य क्रियावैधात् / ज्ञानं च प्रत्यक्षमुच्यते कल्पनाया ज्ञानव्यभिचारात् / 'प्रत्यक्षं कल्पनापोटं यद् ज्ञानमर्थे रूपादो' इति वचनादेवं रूपरूपसमुदाययोनानात्वे दोषः / यद्यपि स्यात्तयोरेकज्ञानत्वादेकज्ञेयत्वं / एक ज्ञानमनयोरित्येकज्ञाने तयोरेकज्ञानत्वादेकमेव ज्ञेयस्तद्भाव एकज्ञेयत्वं दाहानुभववत् / तस्मिन्नेकज्ञेयत्वे इतरेतरत्वेऽन्योन्यात्मापन्नत्वे सति सर्वसर्वात्मवादिता / कथं समुदायार्थान्तरत्वाद्रूपं समुदायमेव समुदायस्वरूपवत्। समुदायो वा रूपमेव रूपानान्तरत्वात् रूपस्वरूपवत् / एवं रसादिघटादिरूपादिसमुदायान्तराभिमतार्थानामर्थान्तरत्वात्सर्वसर्वात्मकत्ववादिता / तस्मात्सर्वपरमाणुनीलानां संचयानर्थान्तरत्वादैक्ये सति समवायग्रहणे युवतिकेशपाशसमुदाये गृह्यमाणे, हिशब्दो यस्मादर्थे, यस्मात्सर्वनीलैक्यं तस्मादेकमेव समुदाना ख।