________________ सञ्चयेऽपि दोषः] न्यायागमानुसारिण्यलङ्कृतम् / नीलं रूपमेककेशगतं गृह्येत / एकमेकं प्रति प्रत्येकैकनीलग्रहणं स्यात् / एकनीलवालग्रहणेऽपि च सर्वनीलकेशपाशग्रहणमेकनीलात्मकत्वात्समुदायस / ततश्च यथात्र सद्भावात्सर्वनीलैकता, गुणसद्भावो द्रव्यं नार्थान्तरं संहत्य सर्वनीलगुणा एकतामापन्नास्तथा रूपादिपञ्चकस्यापि रूपरसगन्धस्पर्शशब्दपञ्चकस्यापि सद्भावादेकता स्यादिति वर्तते / कस्माद्धेतोः ? गुणत्वात् , धर्मत्वादित्यर्थः। न हि वैशेषिकवद्रव्यगुणभेदोऽस्तीति कृत्वा दृष्टान्तः, नीलैकवत् / यथा सर्वनीलानां गुणत्वाद्धर्मत्वादेकत्वं तथा रूपरसाधेकत्वम् / ततश्च सद्भावसिद्धौ गुणानां रूपावैक्ये सति को दोपः ? उच्यते / गुणसद्भावद्रव्यत्वात् / गुणानां संहृतिमात्रमेव यसाव्यं तस्मात्सर्वथा पृथिव्यादीनां पृथिव्यप्तेजोवाय्वादीनामेकत्वमिति वर्तते। किं कारणं ? तदेव रूपायेकत्वं कारणम् / तत आह-तेषामपि रूपादिपरमार्थत्वादिति / रूपादय एव परमार्थो गुणसद्भावद्रव्यत्वात्तेषां चैत्यमतः पृथिव्यप्तेजोवायुघटपटसरित्समुद्रज्योतिरादेः सर्वस्य लोकस्य तदात्मकत्वादेक्यं प्राप्तमिति / तदुपसंहृत्यैवाह-सर्वसर्वात्मकत्वमित्यतः साधूच्यते सर्वसर्वात्मवादितैव / विशेषकान्तवादिनोऽप्यविशेषकान्तवादिन इवेति / अविशेषकान्तवादिनमतिशेते च विशेषकान्तवादीति तयाचिख्यासुराह-गुणसद्भावात्मकद्रव्यत्वापादनाय त्वित्यादि / यावन्न स संचयादृते संभवतीति / तुशब्दो विशेषणार्थः / किं विशिनष्टि ? / रूपादीनामैक्यापत्तेःप्राक् पृथक्स्वरूपैः तस्मात्तैः शब्दादिभिराहङ्कारिकैराकाशाद्यारम्भाभ्युपगमवादिनां विशेपैकान्तवादिनां कदाचिदसंचिताः सन्त्यपि रूपादय इति प्रक्रिया / विशेषकान्तवादिनां तु संचितयैक्यापत्तिरेव क्वचित्पृथगू सश्चितरूपाद्यनभ्युपगमात्सर्वसर्वात्मकवादातिशय इति विशिनष्टि / व्याख्यानार्थ सद्भावातिशयो मायोपमापर्यायः संचितालम्बनाभ्युपगमाद्रूपादिपरमाणूनामिति ग्रन्थं तत्संचयत्वकारणप्रदर्शनार्थमाह-संचितानामसंचितानां प्रागनभ्युपगमात् / प्रागसंचिताः परमाणुरूपादयः / पश्चात् संचितालम्बनीभूता इति नाभ्युपगम्यते यस्मान्मायासूनवीयैः। अवश्यं चैतदेवं भवद्भिरभ्युपगतमेतदिति तदर्थोपदर्शनार्थमागम एवोक्तं हि वः। हिशब्दो यस्मादर्थे / यस्मादुक्तं हि वः सिद्धान्ते / किमुक्तं ? 'सङ्घाता एव संघातान् स्पृशन्ति सावयवत्वादित्युक्तम् / किं परमाणवः परस्परं स्पृशन्ति ? न स्पृशन्ति / स्पृशन्तोऽपि किं देशेन देशं स्पृशन्ति / सर्व वा संघातं वा संघाता वा संघातान् स्पृशन्तो देशेन वा देशं सर्वं वा स्पृशन्तीति. परिप्रश्नोपक्रमः / तत्र परस्परस्पर्शनिरूपणे इत्यादि / सर्वात्मस्पर्शनास्पर्शनयोर्दोषापादनेन निर्धारितं सङ्घाताः सङ्घातान् देशेन स्पृशन्ति, देशमेवेति / यदि , तत्त्व क-ख। 2 परप्रश्नोपक्रमः ग /