________________ नयचक्रम् / [ कारकत्तायांपरमाणुं स्पृशेद्देशाभावात्सर्वात्मना स्पृशेत् , ततश्च तत्प्रवेशेन पिण्डोऽणुमात्रका स्यात् प्रतिपद्यत्वहानं चास्य स्यात् / तथा सङ्घातोपीति सर्वात्मना स्पर्शाभावः / अस्पर्शनेऽपि स प्रतिघात्वाभावः / परमाणुषु वाऽविद्यमानः प्रतिघातः सिकताविवासत्तैलं तत्सङ्घातेऽपि न स्यात् / स च दृष्टः सङ्घाते तसान्नास्त्यस्पर्शनम् / परमाणूनां संघातानां च तस्मात्संघाता एव संघातान् देशेन स्पृशन्ति / आदिग्रहणाद्गतिप्रतिबन्धाभावदोषस्तेषां स्याद् तत एव संघाताभावादालम्बनाभावः स्यादित्यादिदोषापत्तेः / देशस्पर्श एवोपात्तः / सोऽपि च स्पर्शी न च संचयादृते संभवति कथंचिदिति साधूच्यते / सद्भावातिशयो मायोपमा इति / एवं नीलं विजानातीति वाक्यार्थोऽपि न घटत इत्युक्तम् / एतत्तु तस्मिन्नभिधर्मे प्रत्यक्षलक्षणोदाहरणवाक्ये संवदत्यर्थतः / केनार्थेन कतमत् / यत्तूक्तं नो नीलं विजानातीति वर्तते / अमानोनाः प्रतिषेधे / नीलं न विजानातीति एतदेवैकं संवदति नान्यत् किञ्चित / किं कारणं ? कदाचिदपि नीलपरमाण्वाकारनियतज्ञानोत्पत्तिहेत्वभावात् / ये तावत्परमाणवो नीला उच्यन्ते / तेषां कदाचिदपि नीलाकारनियतस्य ज्ञानस्योत्पत्तौ हेतुत्वं न भूतं न भवति न भविष्यति चातीन्द्रियत्वादतोऽसौ स्वदभिमतचक्षुर्विज्ञानसमङ्गी, न कदाचिन्नीलं विजानातीति सुनिश्चितोपपत्तिकं वचः / स्यान्मतं संचयस्येन्द्रियविषयत्वान्नीलात्मकत्वाच्च तस्य नीलं विजानातीत्येतच्चायुक्तं समुदायस्यानीलत्वात् / यदि समुदाये संवृति सति नीलत्वं स्यात् [स्यादेतत् , तच्च नास्तीति न विजानात्येवात्र सम्यक् (1)] पुनरभावस्य नीलतास्तीति न विजानाति नीलमित्येतदेवात्र सुभाषितमिति / स्यान्मतं / न विजानीयान्नीलं यद्येकं परमाणुमतीन्द्रियं पश्यतीति ब्रूयात्तत्समुदायं वा खपुष्पस्थानीयमिति / किं तर्हि ? तानेव परमाणन् प्रत्येकं भिन्नान् संहतान् सर्षपप्रचयवदेकस्थान् पश्यतीत्येतच्चायुक्तम् / भेदतत्त्वाभिमतेत्यादि / भेदा एव तत्त्वं भेदतत्त्वं तद्भावस्तत्त्वं भेदतत्त्वमित्यभिमताः, प्रत्येक त एव समुदायः, न समुदायप्राधान्यं / किं तर्हि ? भेदप्रधान एव समुदायः प्रत्येकसमुदायः संस्तत्परिग्रहेऽपि भेदस्वरूपपरस्परविशिष्टसमुदायपरिग्रहेऽपि शिबिकोद्वाहकन्यायेन प्रत्येकमसामर्थ्येऽपि तत्प्रधानसमुदाये नीलज्ञानोत्पत्तिहेतुसामर्थ्यमस्त्वित्येतस्मिन्नपि च पक्षे परिगृह्यमाणे नीलाभावान्न नीलं विजानाति / कसात्तेषामितरेतरनीलत्वेनानीलत्वात् / तानि नीलत्वानि प्रतिपरमाणु भिन्नानि स्वाश्रयपरमाणुतोऽन्यत्र न वर्तन्ते स्वरसोत्पत्तिभगवत्त्वादीन्तरासम्बन्धाच भावानां तसादितरस्य नीलत्वमितरत्र नास्ति / किं कारणम् ? अत 1 सख। 2 नास्त्यस्पर्शनमित्युपसंहारः कृतः, स्पर्शनेऽपि प्रतिघाताभावः इति-संभवति / 3 पद्यत्वाख। तं तं च क। 5 चेन्न क-ख। 6 न स्याग।