________________ 63 सञ्चयेऽपि दोषः ] न्यायागमानुसारिण्यलङ्कृतम् / द्रूपत्वात् / तदेव रूपं तद्रूपं न तद्रूपं-अतद्रूपं तद्भावोऽतद्रूपत्वम् / तसादतद्रूपत्वात् / न हि तन्नीलमितरस्य नीलरूपं भवति / यदि भवेत्तदेव तत् स्यात् तद्रूपत्वात्तद्वन्न तु भवति / अथवा तद्रूपमस्य तद्रूपं न तद्रूपमस्वरूपमित्यतद्रूपम् / केन ? रूपेण जात्याकारादिना, नहि तन्नीलमितरनीलरूपं जात्या नीलत्वलक्षणया सामान्यभूतयाऽऽकारेण वा संस्थानविशेषेण वृत्तपरिमण्डलादिना जातिरूपेणाकाररूपेण वा यत्स्यादनन्याकारयोनीलयोः परमाण्वोः / तस्य मते तन्मते न कस्यचिदनुपपत्तेरतद्रूपत्वमन्येन नीलं नीलान्तररूपेणास्ति / तद्वन्नीलान्तरमपि तद्रूपेण नास्ति / आदिग्रहणात्प्रथमक्षणदृश्यं द्वितीयक्षणदृश्यरूपं न भवति / तदपि तद्रूपं न भवतीति / देशतोऽपि देशान्तरदृश्यं रूपं न भवत्यतोऽनन्यत्वकरस्यानुपपत्तेरतद्रूपत्वमनन्यत्वकरस्यानुपपत्तिरत्यन्तव्यावृत्तार्थत्वादर्थस्य इति / परमार्थसन्नीलपरमाणुरेव / ते च परमाणवोऽत्यन्तमितरेतरव्यावृत्तांसाधारणरूपाः, कस्माद्? द्रव्यसद्रूपत्वात् / द्रव्यसतो ह्यतद्रूपम् / यदन्यनिरपेक्षविविक्तस्वरूपत्वम् / तत्र यथा तद्रसरूपेण गन्धरूपेण वा नास्ति द्रव्यसद्रूपत्वात्तथा नीलस्वरूपेणापि नास्ति / तदपि च द्रव्यसद्रूपमाणीयाद्यभावे रथाभाववत् / नीलान्तररूपाभाववद्वा तदभावेऽपि न भवत्येव / नीलत्वशून्यत्वाद्वा नीलान्तरनीलवत्तदपि परनीलं तद्वदनीलमतः कतरत्तन्नीलं स्याद् यद्विज्ञायेत चक्षुषा चक्षुर्विज्ञानसमंगिनेति / न नीलं विजानाति चक्षुर्विज्ञानसमंगी / अनन्यत्वकरस्य जात्यादेरभावादेव वा रूपमिति वा रस इति वात्यन्तभिन्नानां परमाणूनामभेदेन द्रव्यसतां ग्रहणाभावान्न नीलं विजानाति / इतरेतराभावपरमार्थत्वाद्वोक्तन्यायेनैव न नीलं नीलान्तरं चास्ति रूपरसादिवदन्यरूपमिति / न नीलं विजानातीत्येतदेव संवदतीति सूक्तमिति / अत एवेत्यादि / अत इत्यनन्तरनिर्दिष्टनीलार्थचक्षुर्विज्ञानसमंगनाभावात् / एवेत्यवधारणे, वक्ष्यमाणवाक्यार्थापत्तिः / प्रत्यक्षविरोधः-प्रत्यक्षजन्मनो विधायकस्य वाक्यस्यार्थोऽर्थ आपद्यते नो तु नीलमितीति, अत्रेतिशब्दस्य प्रकारार्थवाचित्वात् एवंप्रकारो वाक्यार्थ आपद्यत इति / कतमस्य वाक्यस्येति स्फुटीकरणाथ प्रस्तुतमेव प्रत्यक्षलक्षणोदाहरणवाक्यं प्रत्युच्चार्य प्रदर्शयति / चक्षुर्विज्ञान इत्यादि, तदेव चक्षुर्विज्ञानसमंगी संचितालम्बनः / पूर्वोक्तः सन्तानः / चक्षुर्विज्ञानसमंगी। संचितमालम्बनमस्सेति सञ्चितालम्बनः / सञ्चयं संवृतिसन्तं नीलं रूपं विज्ञानमसदवस्तु नीलाभिमतं जानाति, न सत् किञ्चिदित्ययमों जायते / किं कारणं ? / तस्य नीलस्य संचयस्यासतः / चक्षुषा चक्षुरिन्द्रियेण ग्रहणात् / नो नु नीलमेवं भवति / एवंप्रकारमसद्रूपं नीलं न भवति / सदेव हि तन्नीलं न 1 दंग / 2 तदपीतररूपं ख / 3 0 ताः साख / 4 0 विधेः ग।