________________ नयचक्रम् / ... - [ कारकतीयांजानाति परमार्थसत् / किं कारणं तन्नीलं न भवतीति चेत्, परमार्थसत्परमाणुनीलत्वात्। परमार्थसन्तो हि परमाणव एव नीला न संचयस्तसान्न नीलं विजा. नाति चक्षुर्विज्ञानसमंगीति भावना त्वस्येत्यादि। उक्तोपपत्तिबलादेव त्वदुक्ता भावना नयनऽर्थेऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञीति कथं तर्हि घटत इत्यत्राह-भावना त्वस्यानर्थेऽर्थसंज्ञी न च कदाचित्कश्चिदप्यर्थे धर्मसंज्ञीति, तद्व्याचष्टेऽनर्थे संवृति सति समुदायेऽनर्थो हि संवृत्तिसत्त्वात् समुदायस्तदग्रहे तु तद्बुद्ध्यभावात् / यथोक्तंयस्मिन् भिन्ने न तद्बुद्धिरिति श्लोकः / यद्वत्यादिवदिति त्वन्मतेनैव तस्मिन्नसल्लक्षणे समुदाये द्रव्यसन्नीलसंज्ञी / परमार्थसत्परमाणुनीलसंज्ञी तेषामेवार्थत्वात् / अनर्थेऽर्थसंज्ञीत्येतस्माद्भावनावाक्यादाक्षिप्तमेतल्लभ्यते / न त्वर्थेऽर्थसंज्ञीति / तयाचष्टे-नत्वर्थ एव द्रव्यसति परमाणुर्नील एवार्थसंज्ञी भवति / कसात् ? तस्यार्थस्यातीन्द्रियत्वादित्येतत्कारणं पुष्कलमस्त्यसिन्नसत्कल्पितभावनावाक्य इति दर्शयति / यद्येवमर्थे धर्मसंज्ञी भवतु, नेत्युच्यते / न च कदाचिकश्चिदप्यर्थे धर्मसंज्ञी। कदाचिदिति समुदायस्यैवेन्द्रियविषयत्वात्तद्ग्रहणकाले च इत्वरकाले वा न धर्मसंज्ञाप्यर्थे भवितुमर्हति / अथवा प्रत्यक्षकालेऽनुमानकाले वा / किं कारणम् ? अतीन्द्रियत्वात् / अत्यन्तं सर्वकालं कदाचिदित्यस्य व्याख्यानम् / अग्राह्यत्वात् , कस्य ? परमाणुनीलादेः। ततोऽर्थादेतदस्याँपन्नमनर्थ एव धर्मसंज्ञीति / तन्याचष्टेऽनर्थ एवासति नामादि धर्मसंज्ञापि। किं कारणं? संचयस्य नामादीनां च कल्पनात्मकत्वादनथें यावत् कल्पनात्मके संचयेऽनर्थेऽनर्थकल्पनात्मकशब्दादिधर्मसंज्ञी। कस्मात् ? कल्पनापोहासंभवात् , समुदाये समुदायाश्रयनामादिषु वा नामजात्यादियोजना च कल्पना तदपोहस्तस्य ज्ञानस्य कल्पितसमुदायतन्नामादिविषयस्य न संभवत्येव / तसादस्मदुक्तैषा भावना घटते / अथवा त्वदीयैरेवाक्षरैरेषोऽर्थो भाव्यते / अर्थेऽर्थसंज्ञी न, अर्थे-नीलादौ परमार्थसत्यर्थसंज्ञी न भवत्यतीन्द्रियत्वात्तस्य / तुशब्दो विशेषणे / अर्थे धर्मसंज्ञी नेति वर्तते / यस्तावदर्थ एवार्थसंज्ञी न भवतीति / स कुतोऽर्थे धर्मसंज्ञी भवतीति विशेषस्तुशब्दात् / अर्थापत्या पूर्वदनर्थेऽर्थसंज्ञी तस्मिन्नेव च धर्मसंज्ञीति / ततः किं जातम् ? शुन्यशून्यप्रत्युपादनावदसद्विषयत्वं दोषजातमपि तस्याः कल्पनायाः / यथा शून्यं शून्येन गुणितं जातं शून्यमेवेति / तथा गणकानां कचित्कल्पनमसद्विषयं शिष्यमतिपरिकर्मार्थ तथेदमसद्विषयम् / ततश्चासद्विषयत्वान्निर्मूलकल्पनामात्रसत्यतानि * 1 पूर्णः श्लोकस्त्वेवम्-यस्मिन् भिन्नं न तद्बुद्धिरन्यापोहधिया च यत् / घटाम्बुवृत्संवृति सत् परमार्थसदन्यथा // पक्यादिख ३०प्याग। 40 पदेऽक-ख /