________________ सञ्चयेऽपि दोषः ] न्यायागमानुसारिण्यलङ्कृतम् / / बीजात्समुदायकल्पना तद्धर्मकल्पना च निर्मुले द्वे अपि कल्पने / ते प्रमाणमस्स तन्मानं, तन्मात्रमेव सत्यं नान्यत्किञ्चित्सत्यं भवत्कल्पिते प्रत्यक्षे तसान्निमूलकल्पनामात्रसत्यत्वाल्लौकिकेष्टमसलिलादिबीजमृगतृष्णिकादिकल्पनाभ्योऽपि पापीयस्यौ प्रत्यक्षानुमानकल्पने युष्मदीये / यच्चाप्यभिहितमभिधर्मकोशे यतदनेकप्रकारभिन्नमित्यादि यावदनेकवर्णसंस्थानं पश्यत इति बुद्धवचनं प्रत्यक्षलक्षणानुषङ्गागतं चक्षुर्विज्ञानसमंगि नीलविज्ञानोदाहरणसंभावनवाक्यवन्नोपपद्यत एवेत्युपपादयिष्यन् न पश्यति इदं पुनर्बुद्धवचनं न प्रमाणमिति, अभिधर्मकोशे निदर्शितं तद्विचार्यम्। तत्रानेकः प्रकारः प्रकृष्टः कारः। कोऽसौ ? अन्योऽन्यातुल्यत्वम् / केन प्रकारेण भिन्न रूपायतनम्? नीलपीतादिप्रकारभिन्नम् / तत्र तस्मिन् रूपायतने नैकप्रकारभिन्ने कदाचिदेकेन द्रव्येण चक्षुर्विज्ञानमुत्पाद्यते / कथं पुनरेकेन द्रव्येणोत्पाद्यते ? / यदा नीलादितत्प्रकारव्यवच्छेदो भवति / नीलमेवेदं न पीतादि / पीतमेवेदं न नीलादीत्येकप्रकारव्यवच्छेदो यदा भवति तदा चक्षुविज्ञानमेकेन द्रव्येणोत्पाद्यते / कदाचिदनेकेन-कदा पुनरनेकेन / यदा तत्प्रकारव्यवच्छेदो भवति / नीलादिप्रकारव्यवच्छेदो यदा न भवति तदा चक्षुर्विज्ञानमनेकेन द्रव्येणोत्पाद्यते / अस्मिन्नर्थेऽत्रोदाहरणमप्याह-तद् यथा दूरान्मणिसमूहमित्यादि / विप्रकृष्टदेशस्थितं मणीनां समूहमनेकवर्णसंस्थानं अनेकेन वर्णेन संस्थान-व्यवस्थानमस्य तमनेकवर्णसंस्थानं पश्यतः, अनेकवर्णमनेकसंस्थानं न पश्यत इति वा यो नीलपीताद्यनेकवर्णो वृत्तव्यसाधनेकसंस्थानो वज्रेन्द्रनीलमरकतसस्यकपुष्परागपद्मरागस्फटिकादिमणिसमूहोऽनेकप्रकारभिन्नः तं पश्यतः पुरुषस्य दूरान्न व्यवच्छेदो भवति, आरात्तु व्यवच्छेदो भवति, यदयमिन्द्रनीलो वज्रादीनामन्यतमो वेति / तत्र कल्पनापोढस्वलक्षणविषयप्रत्यक्षलक्षणचोद्योपक्रमप्रसङ्गेन यत्तीदं संचितालम्बनाः पञ्च विज्ञानकाया इति तत्कथम्? यदि तदेकतो न विकल्पयति / यच्चोक्तमनेकप्रकारभिन्नैकानेकद्रव्योत्पाद्यज्ञानेत्यत्र कल्पनात्मकत्वप्रसङ्गा, खलक्षणविषयत्वप्रसङ्गश्चेति चोदिते तत्परिहारार्थमायतनस्खलक्षणं प्रत्येते खलक्षणविषया न द्रव्यस्खलक्षणमिति / कथं तत्कल्पनापेतमित्यत्र विचारः करिष्यते। इदमेतावद्विचारयामो बुद्धवचनम्। कदाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यते कदाचिदनेकेनेति / अत्रापि कथमनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनतायां यावत्पठ्यन्त इति वक्तव्यम् / कथं वक्तव्यमिति सम्बन्धः। अनेकप्रकारे भिन्ने सामान्ये वृत्तिरस्य रूपायतनस्य तदनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनं तद्भावस्तादृग्रूपायतनता तस्यां सत्यामनेकप्रकारभिन्नसामान्यवृत्तिरूपायतनतायां तद्रूपायतनं पश्यतः समूहात्मकं तदालम्बनत्वात्तस्य चक्षुर्विज्ञानस्य तद्विषयत्वात् / न.च. 9