________________ 66 नयचक्रम्। [चक्षुर्विज्ञानसमङ्गीसामान्याख्यसमूहरूपायतनविषयत्वात् / कथं स्वलक्षणविषयं तद् युज्यते ? तथा सर्वरूपादिपञ्चविज्ञानकायाः / रूपायतनतद्विज्ञानयोरुदाहरणमात्रत्वात् / कथं स्वलक्षणविषयाः पञ्च विज्ञानकायाः पठ्यन्त इति वक्तव्योऽत्र समाधिः, आयतनस्य सामान्यरूपत्वात्तत्र लक्षणतेत्यर्थः। कथं चेतीत्यादि,यावदेकप्रकारावच्छेद इति / कथमिति हेतुपरिप्रश्ने, चशब्दो दोषसमुच्चये / केन हेतुना तस्यामनेकप्रकारसामान्यवृत्तिरूपायतनतायां / इतिशब्दः प्रकारवाची / इत्थं नानारूपिरूपायतनं पश्यतः संचितालम्बनतायामविभागसमवस्थसमूहात्मकत्वात् / अविभागेनैक्यापत्त्या समवस्था यस्य समूहस्य सोऽयमविभागसमवस्थसमूहस्तदात्मकत्वाद्रूपायतनस्य / कथमनेकप्रकारावच्छेदो न भवितुमर्हतीत्यर्थः / किमिव ? मणिसमूहप्रभानुविद्धवर्णसंस्थानवत् / यथा नानावर्णानां मणीनां समूहे तत्प्रभयानुविद्धे वर्णसंस्थाने नास्त्येकप्रकारावच्छेदः। तथैकद्रव्यावच्छेदाभाव इति। कि चान्यत्-एकस्य च द्रव्यस्य कदाचिदग्रहणात् / एकस्य च द्रव्यस्य परमाणोः सर्वदाप्यतीन्द्रियस्य ग्रहणाभावादेकेन द्रव्येण कथं चक्षुर्विज्ञानमुत्पाद्यते ? न कदाचित् कथंचिदुत्पाद्यत इत्यर्थः / तस्मात्कदाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यते यदा नीलादिप्रकारव्यवच्छेदो भवतीति किमेतदबुद्धवचनं बुद्धवचनमिति चिन्त्यताम् / किमिव पुनरेकस्य द्रव्यस्य कदाचिदग्रहणाचक्षुर्विज्ञानं नोत्पाद्यत ? इति चेत् / उच्यते-रसानास्वादनरसाज्ञानवत् , रसनेन्द्रियेणानास्वादिते यथा रसज्ञानं नोत्पद्यते, एवं चक्षुषाऽगृहीतेषु चक्षुर्विज्ञानं नास्ति / यदि चास्य बुद्धवचनस्य बुद्धवचनत्वसिद्ध्यर्थमेकेन द्रव्येण ज्ञानमुत्पाद्यत इत्यभ्युपगम्यते तत एकद्रव्यज्ञानोत्पादने तु संचितालम्बनकल्पना निरर्थिकैव / यदा चैवं प्रत्येकं चक्षुर्विषयताणूनामिष्यते तदेदमपरं बुद्धवचनमबुद्धवचनं निरर्थकं च जायते / कथमेतत् ? संचितालम्बनाः पञ्च विज्ञानकाया इति एतस्य चासत्यत्वे तदसत्यता स्थितैवेति परस्परतो वचनद्वयविषयोऽभ्युपगमविरोध इति / अत आह-तदभ्युपगमविरोधः। किं चान्यत्-प्रकारावच्छेदेत्यादि / यावत्संचितगतेरेव / तत्प्रकारः अवच्छेदः तत्प्रकारावच्छेदः। अनेकप्रकारावच्छिन्नत्वमित्येतान्यपि ज्ञानानि भवितुमर्हन्ति / कस्मात् ? रूपायतनस्य संचितगतेरेव संचितमेव हि रूपायतनं गम्यते वा संचितमतो न प्रकार इति ज्ञानं घटते / प्रकृष्टः कारः प्रकारः / नीलः पीत इत्ययमस्साद् विशिष्ट इति / परस्परतोऽत्यन्तभेदाभावे प्रकारभावादभेदगतिः / सामान्येन तु प्रकारज्ञानं घटते तथावच्छेदोऽन्यसादन्यस्य भेदाभेदविकल्पनात् तथानवच्छेदः / अनेक इत्यनेकेन च प्रकारेण भिन्न इति भिन्नानामभेदगतिः / सञ्चितगतेरभेदगतेश्च न प्रकारादिज्ञानान्यकल्पनात्मकानि स्खलक्षणविषयाणि 1 कतमत् / क-ख।