________________ -तिविचारणा] न्यायागमानुसारिण्यलङ्कृतम् / च भवितुमर्हन्ति / किमिव ? नरसिंहवत् / यथा नरसाकारोऽधस्त्यः सिंहस्याकारः शिरोभागः / तदुभयाभेदगतेनरसिंह इत्युच्यते / एवं प्रकारादिज्ञानान्यपि भिन्नेप्वभेदकल्पनादेव स्युर्नान्यथेति, नरसिंहे च नरसिंहाविति भिन्नयोरभेदगत्यभावाददृष्टान्ततेति चेन्न, संचययोरेवाभेदरूपत्वात् / नरसिंहानेकप्रकारगतिरपि हीत्यादि / तयोहि प्रत्येकं नरसिंह इति च भिन्नयोरपि प्रकारगतिर्यस्सानरत्वसिंहत्वसंचययोनीलादिपरमाण्वादिद्रव्याणां पूर्वभेदेन दर्शनात् अभेदकल्पनात्मिका भेदगतिरिति युक्ता, न तथा तु अभ्युपेतेत्यादि / नरसिंहप्रकारगतिमेव च / असंचये तु तद्रव्येष्वणुष्वित्यादि / संचितालम्बनाः पञ्च विज्ञानकाया इति यदुक्तं त्वया तद्विस्मृत्येदमुक्तम् / यदेतदनेकप्रकारभिन्न रूपायतनम् / तत्र कदाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यत इति / चक्षुर्विज्ञानसमंगी नीलं विजानाति नो नु नीलमित्येतदपि विस्मृत्येदमुक्तम् / कदाचिदनेकेन यदा तयवच्छेदो न भवति / तद् यथा-मणिसमूहमनेकवर्णसंस्थानं पश्यत इति / नीलपीताद्यनेकरूपस्य युगपद्ग्रहणाभ्युपगमे नीलैकरूपविज्ञानविरोधात् / इत्यलं प्रसङ्गेन // प्रकृतमुच्यते-द्रव्यसत्स्वणुषु नीलपीतादिप्रकारग्रहणमेव नास्ति / तदसंचये किं कारणमसंचितस्यौदर्शनात् / असंचितानामदर्शनमतीन्द्रियत्वादित्युक्तम् / कुत एवं तयवच्छेदादि / सति हि दर्शने तयवच्छेदाऽनवच्छेदप्रकारभिन्नत्वज्ञानानि संभाव्येरन् / असति दर्शने दूरादेव तानि न स्युः / एवं तावदेकेन द्रव्येणेत्युक्तं / यदपि चोक्तमनेकेन द्रव्येण कदाचित् ज्ञानमुत्पाद्यत इत्यस्मादनेकेनेति वचनात्तस्यानेकद्रव्यसंवृतिसत्वात् सामान्यता / सामान्यत्वादसत्कल्पनं तत्तद्विषयाः पञ्च विज्ञानकाया असत्कल्पनविषयत्वादनुमानतदाभासज्ञानवदप्रत्यक्षमप्रमाणं वा दूरान्मणिसमूहदर्शनवद्वेति न स्खलक्षणविषयाः प्रसक्ताः / न च केवलं स्वस्खलक्षणविषयतैव दोषः / किं तर्हि ? एकविज्ञानमनेकविषयतापि दूरदर्शनवदेवेति बुद्धवचनासमंजसत्वप्रतिपादनप्रसङ्गेनेदमप्युपन्यस्तं यदपि च बुद्धेनोक्तमित्यादि / यावद्धमाश्चोत्पद्यते मनोविज्ञानमिति / यद्यनेकेन द्रव्येण ज्ञानमुत्पाद्यते साक्षाद्बुद्धेनोक्तम् / यदपि च द्वयं प्रतीत्येत्यादि विरुध्यत इत्यभिसम्बन्धः / आध्यात्मिकमायतनं बाह्यं च द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर्भवतीत्युक्त्वा स्वयमेव पुनःप्रतिपृच्छ्य व्याकरोति / कतमद्द्वयं प्रतीत्य च दुःप्रतीत्य रूपाणि च प्रतीत्येत्यादि / विभज्य वाच्यं गतार्थमेव तत् / द्वयषद्काद्-विज्ञानषदमुत्पद्यत इति पूर्वपक्षः / तथा चाह १०पेत्येत्याग / २०स्व दुक। ख / 3 एतदक-ग। 4 बा व्यंग।