________________ नयचक्रम् / [चक्षुर्विज्ञानसमङ्गी"विजानाति न विज्ञानमेकमर्थद्वयं यथा / एकमर्थं विजानाति न विज्ञानद्वयं तथा // " इति / अत्रोत्तरमाह-अत्रापि चक्षुः प्रतीत्य रूपाणि च प्रतीत्य चक्षुर्विज्ञानस्योत्पत्तिर्भवतीति द्वयी गतिः। बहुवचननिर्देशस्य संचयापेक्षयाऽतीन्द्रियाणामपि रूपाणामरूपाणां व्यक्तिपदार्थाश्रयः स्यात् / जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यामिति जातिपदार्थाश्रयो वा। तत्र यदि व्यक्त्यपेक्षो निर्देशः। संचयाधारतया ततोऽयमेव संवृतिसत्सामान्यासत्कल्पनविषयाः पञ्च विज्ञानकाया न स्वलक्षणविषया इति दोषः। अथ द्रव्योक्तमेतजातीयाः परमाणव एकरूपनिर्देशेन सर्व निर्देष्टव्या इत्येकसिन् बहुवचनं। तत इहाभ्युपगमविरोधः।अभ्युपगतं त्वयातीन्द्रियाः परमाणव इति तेन विरोधः। आसिंश्चाभ्युपगमेऽन्यदप्यनिष्टापादनमुच्यते।बुद्ध्यादेरपि चैन्द्रियकत्वमतीन्द्रियत्वाद्रूपवदिति, बुद्धिसुखदुःखेच्छाद्वेषवेदनादयोधर्माश्चाक्षुषाः स्युभवत्परिकल्पिताः। अतीन्द्रियत्वाद्रूपवत् / रूपं वा न चक्षुह्यं स्यादतीन्द्रियत्वाद्बुद्ध्यादिवत् / ब्रूयास्त्वं नन्वतीन्द्रियत्वं चक्षुर्ग्राह्यत्वं च परस्परतो विरुध्येतेति तन्मा मंस्थाः। भवतोऽनिष्टापादनपरत्वाद्भवबुद्धिनिवर्तनफलत्वाचास्य प्रयोगस्येति / अथापि यश्चात्र विरोधः संभाव्येत स तुल्यः। परमाण्वैन्द्रियकत्वेन परमोऽणुः परमाणुः। अणुशब्दः सूक्ष्मपर्यायः / परमशब्दः तदतिशयवाची, स चातीन्द्रियत्वे घटते / तस्यातीन्द्रियस्सैन्द्रियकत्वं चाक्षुषत्वं यथा०विरुद्धमेवमिदमपि बुद्ध्याथैन्द्रियकत्वं तुल्यमिति / समानदोषतया विरोधोद्भावनमस्तु, को दोषः 1 / किं चान्यत्? चक्षुःप्रतीत्य रूपाणि च प्रतीत्य चक्षुर्विज्ञानमुत्पद्यत इति वातीन्द्रियत्वादनुमानविरोधः / स्थूलानां सूक्ष्मपूर्वकत्वात्कार्यानुमानसिद्धाः परमाणवः। तस्मानित्यानुमेयानां तेषां चक्षुर्विषयत्वाभ्युपगमेन च तयोरनुमानविरोधिता। किं चान्यत्। उक्तं च-उक्तभावनावत्ववचनविरोधोऽपि / उक्ता भावना तद्वदुक्तभावनावदेवमेव च परमाणुरतीन्द्रियत्वाचाक्षुषश्चेत्यनुमानविरोधः। भावनयोक्तया तुल्यत्वादतीन्द्रियाभिमतः परमाणुः चक्षुर्विषयतामायातीति बुवतः स्ववचनविरोधोऽपि / वादपरमेश्वरसंश्रयश्चैवम् / एवं च भवत एकान्तवादिनस्तत्यागेनानेकान्तवादाश्रयः / वादाः सर्व एव लोकं स्वसाकतुं समर्थत्वाल्लोकस्येशते एकान्ता अपि, तेषां तु सर्वेषामनेकान्तवादः परमेश्वरस्तद्वशवर्तिनाभीष्टे तेषां स्वार्थोन्नयनसमर्थानामपि परस्परविरोधदोषवतामुदासीनमध्यमनृपतिवत्संध्यादिषागुणान्यतमगुणाश्रयिणां विजिगीषूणां परार्पणलक्षणसंश्रयगुणाधारः परमेश्वरः स्याद्वादः / तत्संश्रयेणैव स्ववृत्तिलाभात्तदसंश्रये परस्परकायविलोपात् / 1.< एतचिह्नाङ्कितो विपर्यस्तः पाठः क-ख-प्रत्योः /