________________ -तिविचारणा] न्यायागमानुसारिण्यलङ्कृतम् / स्वयं विनाशाच तेषां / लौकिको व्यवहारनय आह। न च नस्तेन सह विरोधः। कस्मात् ? तस्य लोकनाथत्वात् / लोको हि व्यवहारनयस्तद्वशवर्तित्वेन तन्मतविलोकनात्तस्य / लोकस्य नाथत इति लोकनाथः स्याद्वादः। कस्मात् से हीनो ? यतो विलुप्यमानस्यैकान्तवादिभिर्लोकतत्त्वस्य लोकसारस्य सम्यग्दर्शनरत्नस्य त्राता त्राणशीलत्राणधर्मा साधुत्राणकारी वेति / कथं त्रातेति चेत् / सर्ववादभेदेत्यादि / लोकभूतानां सर्ववादानां भेदाः सर्ववादभेदाः / नित्यानित्यायेकान्तास्तेषां यथार्थानि यथार्थभावाः / स्वविषयसमर्थभाविता तेषां लोकसंवादेनोपग्राहयित्वा परस्परसाम्यावस्थापनेन पालनात्रातेत्युच्यते / इतर आह / कथं संश्रय इति चेत् / अस्तु ताव द्वादपरमेश्वरत्वं लोकत्राणात् स्याद्वादस्य / लोकत्राणं च परस्पराविरोधोपपादनेनैकीकरणाच तेषाम् / वादपरमेश्वरसमाश्रयः कथमेकान्तवादानामिति / अत्रोच्यते-अनेकात्मकरूपायतनाभ्युपगमात् / अनेक आत्मा यस्य तदिदमनेकात्मकं रूपायतनं यत् तत्, एकेन द्रव्येण कदाचिज ज्ञानमुत्पादयति कदाचिदनेकेनेति तद्व्यवच्छेदाव्यवच्छेदाभ्यामिति तदभ्युपगमात् स्याद्वादसमाश्रयः। स्याद्वादैकदेशाश्व नया एकान्तवादाः, यथोक्तम् भदं मिच्छादसणसमूहमइयस्स अमयसारस्स / जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स // [सम्मतितर्क का. 3 गा. 59] नैताः स्वमनीषिकाः / लक्षणमपि तथैव नयानाम् , उक्तं हि-'द्रव्यस्यानेकात्मकत्वेऽन्यतमात्मैकान्तपरिग्रहो नयः' / स्वप्राधान्येनार्थनयनान्नयः। स च मिथ्यादृष्टिरनेकाकारार्थस्य विपरीतप्रतिपत्तित्वात् / अनेकात्मकवस्तुप्रतिपत्तित्वात् स्याद्वादस्य याथार्थ्यम् / कथं पुनर्लोकभूतेन व्यवहारनयेनैकान्तवादिमिगृह्यन्त इति चेत् / लोकनाथसमाश्रितत्वात्तेषां / लोकनाथपक्षसमाश्रय एव प्रतिवादिपक्षाभ्युपगमः / स निग्रहस्थानमेकान्तवादिनामभ्युपगमसमकालमेवावसितो वादं प्रति / अत्र चैकरूपायतनाकारतयेत्यादि / त्वयापि स्याद्वाद्यभ्युपगतानेकात्मवस्त्वेकानेकत्वानेकान्तवादोऽभ्युपगत एव / यस्सादनेकप्रकारभिन्नमित्यादि / यावदनेकवर्णसंस्थानं पश्यत इति / अत्र च वाक्ये एकमेव रूपायतनं ज्ञानाधारमभीष्टं यस्मात्तदाधारतया पुनस्तत्रेत्यधिकरणवाचिप्रत्ययात्तेन तत्रशब्देनानन्तरनिर्दिष्टमेव रूपायतनमुक्तमव्यतिरेकमभेदं तस्य वस्तुनः आगृ. ह्योक्तं / तस्यैवारूपरूपता पुनर्दर्शिता, कदाचिदेकेन द्रव्येण कदाचिदनेकेन ज्ञानमुत्पाद्यत इति ब्रुवता रूपायतनस्यैवैकानेकसंख्यानिर्देश्यत्वमनभ्युपगच्छता 1 सहितोऽमुतो क-ख / सहितो-युतो ग / 2 हि-निश्चयेन इनः-स्वामी। 3 deg वाद० क-ख /