________________ नयचक्रम् / [चक्षुर्विज्ञानसमङ्गीकथं तत्र शब्दसामानाधिकरण्यमापादयितुं शक्यते ? / यदि तदेकमनेकं च न स्यात् / तथा इतरथा तत्र च रूपायतनेऽन्यत्र वेति स्यान्न तु भवति / तस्मादेवं चेत्यादि / एवं चोक्तविधिना तस्य त्वयैवोक्तस्य रूपायतनस्य एकस्यैवैकतानेकता च / अतस्त्वयैवोक्ता / कस्मात् / तथाऽविभक्तेत्यादि। तेन प्रकारेण तथाअविभक्तं तत्त्वं यस्य तदिदमविभक्ततत्त्वम् / तद्भावस्तत्त्वमेकानेकत्वाद्यविभक्तवस्तुतत्त्वम् / 0 तेन तथाविभक्ततत्त्वेन ज्ञानोत्पत्तेरिति हेतुः / कस्मिन् ? साध्ये / तस्यैवैकानेकतायां / दृश्यते हि तदेव रूपायतनमेकमनेकं च परमाणवस्तत्समूहश्चेति ज्ञानोत्पत्तिर्दूरान्मणिसमूहमनेकवर्णसंस्थानं पश्यत इत्युदाहरणमपि / एवमेवैकानेकरूपद्रव्यरूपायतनत्वे साध्ये चक्षुर्विज्ञानाधारस्य वस्तुनः साधर्म्यदृष्टान्तत्वं भजते / नैकान्तैकानेकरूपत्वे / ततश्चावश्यमेषोऽर्थ आपद्यते / स्यादेकं पररूपायतनं स्यादने रूपायतनमिति / कस्मात् 1 स्निग्धरूक्षत्वाभ्यां चैवैक्यपरिणामापत्तेस्तत्समूहग्राह्यत्वादेकं द्रव्यार्थावस्थानात्परमाणूनां स्वरूपभिन्नानां भेदादनेकम् / अत एव द्रव्यं रूपादिगुणपर्यायपरिणामापत्तेरद्रव्यं प्रति स्वमसाधारणरूपादिपरिणामापेक्षया स्वलक्षणविषयं साधारणीभूतभेदात् समूहापेक्षं चाक्षुषत्वादिपरिणामापत्तेः सामान्यविषयम् / यथोक्तम्-"भेदसङ्घाताभ्यां चाक्षुषाः" इति (तत्त्वार्थ० अ. 5 सू. 28) उक्तहेतुवदिति / तथाविभक्ततत्वज्ञानोत्पत्तेर्भेदाभेदात्मकज्ञानोत्पत्तिवदेतदपि वस्तुभेदात्मकमिति / इतर आहननु कदाचिच्छब्दः कालान्तरवचनः / तस्मिन्नेव हि वस्तुनि कदाचित्कालान्तरे ज्ञानमेकाकारमुत्पद्यते कदाचिदनेकाकारम् / ज्ञानस्यैवाकारवत्वान्निराकारबाह्यवस्तुपक्ष इति / अत्रोच्यते तन्नैकंकाल एवोभयरूपत्वात् , एकस्मिन्नेव हि काले नीलपरमाणुसमूहाकारज्ञानस्य भेदाभेदात्मकत्वं दृष्टमतो न सम्यगुक्तं कदाचिच्छब्दः कालान्तरवचनस्तस्मादेकाकारं कदाचित्कदाचिदनेकाकारं ज्ञानमुत्पद्यते तमिन्नेव वस्तुनीति / तसाच्चैककाल एवोभयरूपत्वात् स्यात्तत्तत् तदेव तद्वस्तु परमाणुद्रव्यसमूहाभेदात् / स्यान्न तत्तत् रूपादि परिणामभेदात् / हेत्वन्तरमप्यत्रोच्यतेग्रहणापदेशविशिष्टार्थत्वात् / ग्रहणं-ज्ञानं ज्ञानमेवापदेशो हेतुः। तेन हेतुना विशिष्टो ग्रहणापदेशविशिष्टश्चासावर्थश्च तद्भावो ग्रहणापदेशविशिष्टार्थत्वम् / यस्माचक्षुर्विज्ञानाद्धेतोविशिष्टोऽर्थो रूपं समुदायात्मकं गृह्यते तस्मादनेकात्मकं तद्वस्तु / को दृष्टान्तः ? अनेकवर्णमणिरूपवत् / एक एव वा मणिर्मेचकः स्फटिकाद्यन्यतमस्तद्रूपवत् / नानावर्णानां वा मणीनां समूहस्य रूपवत् / यथा तद्ग्रहणापदेशविशिष्टज्ञानं परिच्छिन्नविभिन्नरूपं तथा चक्षुर्विषयाभिमतं वस्तु एकपुरुषपि १तत ग। 2 तत्रैक ग।