________________ -तिविचारणा] न्यायागमानुसारिण्यलङ्कृतम् / 71 तृपुत्रादिवद्वेति / ग्रहणापदेशविशिष्टत्वसाधर्म्यदृष्टान्तान्तरम् / यथैकः पुरुषोऽनेकसम्बन्धिजनापेक्षया पिता पुत्रो भागिनेयो मातुल इत्येवमादिव्यपदेश्यत्वं भजते / न चास्य विरोधसङ्करानवस्थाप्रसङ्गदोषा ग्रहणापदेशविशिष्टार्थत्वात, एवं चक्षुर्विज्ञानविज्ञेयं वस्तु प्रतिपत्तव्यम् / अतोऽनपेक्षितेत्यादि / अत एव कारणाघेऽत्र चोदयन्ति परस्परविरुद्धानां कथमेकत्र संभव इति / तेषां तदनपेक्षितस्वाभ्युपगममनेकान्तदूषणमापद्यते / स्वाभ्युपगमः स नापेक्षते यस्मिन् दूषणे तदनपेक्षितस्वाभ्युपगममनेकान्तदूषणम् / तद्यथा-सर्व सर्वात्मकमविशिष्टं प्रतिज्ञाय परिणामभेदव्याख्यानं चानपेक्ष्यानेकान्तदूषणम् / देशकालकृतात्यन्तविशिष्टत्वं प्रतिज्ञाय सन्तानाविशेषव्याख्यानमनपेक्ष्यानेकान्तदूषणम् / असत्कार्योत्पत्ति प्रतिज्ञाय तुल्यजातीयद्रव्यगुणान्तरारम्भनियमव्याख्यानं चानपेक्ष्यानेकान्तदूषणं च / कस्माद्धेतोः ? अविभातैवमर्थ्यपूर्वाभ्युपगमत्वाद्वा / एकान्तवादिनामुक्तानेकान्तस्वरूपोऽर्थ एवमर्थः, तद्भाव एवमर्थ्यमविभावितैवमर्थ्य, पूर्वाभ्युपगमश्च यैस्त इमेऽविभावितैवमर्थ्य पूर्वाभ्युपगमा एकान्तवादिनस्तद्भावादविभावितैवमर्थ्यपूर्वाभ्युपगमत्वादुन्मुग्धभ्रान्तोन्मत्तादिवदनपेक्षितस्वाभ्युपगमानेकान्तदूषणं तस्मात् / कस्य वयं विशेष्यायमेवोन्मुग्धो भ्रान्त उन्मत्तो वेति दोषं ब्रूमः / सर्व एव यूयमेव दोषद्रष्टारः / किं तपस्विना विशेषकान्तवादिनैव / परास्तं वादिपरमेश्वरपरिरक्ष्यलोकतत्त्व विलोपनोद्यमितेति / अत आह-न विशेषदोषः कस्यचिदपीति प्रागभिहितम् / सम्बन्धागतकल्पनात्मकत्वापादनचोद्यदूषणमनुक्त्वा तदभ्युपगमेन परिहारोक्तिरायतनस्वलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यस्खलक्षणं प्रतीत्येतत्तु व्याख्यानं प्रागुच्चार्य चोदितमेव / दोषं च लपित्वा प्रतिष्ठापितवानसि, स्थिरीकतवानसीत्यर्थः / यत्तु समस्तालम्बनमित्यादि यावदित्येतत्प्रतिष्ठापितमेव स्थिरीकृतमिति / __ एष तु विशेषः कल्पनात्मकत्वदोपादन्यो दोषः कतमः ? अज्ञानत्वप्रसगस्तद् यथा-स्फुटतटक इत्यादि यावत्कुतः प्रत्यक्षत्वमित्येतद्रूपदर्शितमिति गतार्थम् / योऽपि चैकाकारेत्यादिचोद्यप्रत्युच्चारणमेतद्यावत्सञ्चितालम्बनतायाम् , एतदुक्तं भवति-यदि तदेकतो न विकल्पयति कथं संचितालम्बनता / कल्पनानन्तरीयका हि सा कल्पनामन्तरेण संभवतीति चोदिते तत्रोत्तरो वक्ष्यमाणार्थस्तस्यासमाधिरभिधीयते / स एव च किलास्वलक्षणत्वदोषपरिहारोऽभिमतोऽर्थद्वयबाचित्वाविरोधादस्य वा कस्येति तत्प्रत्युच्चारयति सव्याख्यानमनेकार्थजन्यत्वात् खार्थे सामान्यगोचरमित्यादि यावत्तेषु पृथक् पृथग्ग्रहणाभावादिति। गतार्थः।पिण्डार्थस्तु-यद्यपि परमाणुसमूहजन्यत्वान्न ज्ञानमर्थतः सामान्यगोचरं तथापि रूपं रसो कृताद् यत्रग। 20 स्वं क-ग। 30 बोधग।